पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
69
काव्यार्थापत्तिसरः (‌५१)

रेफस्य क्षकारोक्त्या तदधीना क्षकारवश्या सती क्षमा भवितेति क्षमेति निष्पत्स्यत इति नाश्चर्यमित्यप्यर्थश्चमात्कारमतिशाययति । अत्र त्वद्दयितरमारूपप्रकृतार्थापेक्षया प्रकृतायाः क्षमायाः तदधीनत्वेन न्यूनत्वम् ॥

 यथावा--

 करुणामयि कृतमन्तुं त्वमेव मां यदि रमे परित्यजसि । क्रोधोष्मलोऽपराधिषु नाथोऽपि सुदूरमेव संत्यजति ॥ १५३३ ॥

 अत्रपि प्रस्तुतेनापाद्यमानस्य प्रस्तुतस्य न्यूनत्वम् । तच्च करुणामयि क्रोधोष्मल इति विशेषणाभ्यामवगम्यते । अत एवेयं परिकरोत्तेजिता । पूर्वा तु श्लेषसंकीर्णेति विशेषः ।

 पुरुषोत्तम पाप्मानं मम यदि हन्तुं त्वमेव नाशक्नोः । किमिदं नु विस्मयपदं क्षमाऽपि तव नैव शक्ष्यति निहन्तुम् ॥ १५३४ ॥

 तव क्षमा क्षान्तिः । अत्र पापस्य अतिमहत्तरत्वेन भगवताऽपि दुरूच्छेदत्वं सिद्धवत्कुर्तुः कस्यचिदुक्तिः परमपुरुषापेक्षया क्षमायाः स्त्रीत्वेन न्यूनत्वम् । अत एव किं विस्मयपदमिदमित्युक्तम् । अत्रापाद्यापादकयोर्द्वयोरपि प्रकृतत्वम् ॥

 अप्रकृतेन अप्रकृतस्यापादनं यथा--

 यदि कश्चित्तव तुलनां हृदि वाञ्छति जन्तुरच्युत तदानीम् । भूमेर्धौरन्धर्यं सौमेरवमेव वहति परमाणुः ॥ १५३५ ॥