पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
62
अलङ्कारमणिहारे

सज्जो वा ‘कल्यमहर्मुखे । कल्या कल्याणवाचि स्यात्रिषु नीरोगदक्षयोः' इति रत्नमाला । ‘कल्यौ सज्जनिरामयौ, इत्यमरः । तस्य तादृशस्य कस्यचिद्राज्ञ इति गम्यते । यः अब्जव्यूहः पद्माकारस्सेनाविन्यासविशेषः तस्थो वीरजन इति यावत् । वस्तुतस्तु कल्यं प्रभातं तस्मिन् यः अब्जप्यूहः पद्मसमूह इत्यर्थः । जडः स्तब्ध: बुद्धिहीनो वा । ‘जडस्स्तब्धे बुद्धिहीने हिमग्रस्तेऽपि वाच्यवत्’ इति रत्नमाला । तथाविधो यो राजा नृपतिः तस्य यत् मण्डलं राष्ट्रं तस्य । परमार्थतस्तु जडः शिशिरः यः राजा चन्द्रः तस्य मण्डलं बिम्बं तस्येत्यर्थः । अन्यत्तुगमम् । अत्र कल्याब्जव्यूहनिर्जेतुर्वदनस्य जडराजमण्डलजयः कैमुतिकन्यन्यसिद्धः । श्लेषसमासोक्त्युत्तम्भितेयम् ॥

 यथावा--

 सर्वज्ञश्लाघ्ये तव वदनेन सता कलानिधौ विजिते । स्वत एव भङ्गभाजो जडजातस्य तु जयेऽत्र को विशयः ॥ १५२२ ॥

 सता विदुषा प्रशस्तेन च तव वदनेन सर्वज्ञश्लाघ्ये विद्वन्मणिश्लाघनीये धूर्जटिशिरोविधृते च । कलानिधौ सर्वविद्यानिवासभूते विदुषि चन्द्रमनसि च । विजिते सति । स्वत एव भङ्गं पराभवं तरङ्गं च भजतीति तथोक्तस्य जडजातस्य स्तब्धजन्मनः । निसर्गत एव जडजन्मनः सर्वत्र पराभवजुषश्चोति भावः । ईदृशस्य जये अभिभवे को विशयः कस्संदेहः न कोऽपीति भावः । अत्रापि महाविद्वज्जयिनो वदनस्य निसर्गभङ्गशालिजडजातविजयरूपार्थो दण्डापूपिकया निबद्धः ॥