पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
53
प्रत्यनीकालङ्कारसरः (‌६०)

 या चपला विद्युत् निजरुचिं तव श्रियं अपहृत्य । चपलेत्यनेनानवस्थितचित्ततया असमीक्ष्यकारिता द्योतिता । पयोधरे जलदे लीना सती कृतार्थेव नेतःपरं मम भयं किंचिदपि संभवेदिति कृतकृत्येव । उल्लसति हृष्यतीत्यर्थः । प्रकाशत इति तत्त्वम् । हारमिषां वज्रमणिहारच्छलां तां चपलां सपयोधरं स्वरुचिप्रतिभटतटिल्लताश्रयभूतजलधरसहितं यथास्यात्तथा । पक्षे स्तनसहितं यथास्यात्तथा कण्ठे नह्यसे ‘कण्ठे बध्द्वा दशग्रीवम्' इत्यादिवद्ग्रीवायां बध्नासीत्यर्थः । पक्षे कन्धरायां परिष्कारहेतोः प्रतिमुञ्चसीत्यर्थः । अत्र साक्षात्प्रतिभटभूतायास्तटिल्लतायास्साश्रयायास्तिरस्कारः कैतवापह्नुतिश्लेषमूलाभेदाध्यवसायाभ्यामुज्जीवित इति पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥

 द्वितीयं यथा--

 तनुरुचिजितस्तवाच्युत मुखं विजेतुं विधुर्भवन्नेव । मकारो भूत्वा मधुकर इभमग्रसत त्वदेकशरणमहो ॥ १५०७ ॥

 हे अच्युत! मधुकरः भ्रमरः मधुकरशब्दश्च । तयोस्तादात्म्म् । तव तनुरुच्या शरीरश्रिया अल्पयैव त्विषेत्यपि गम्यते । जितस्सन् तव मुखं विजेतुं विधुर्भवन्नेव चन्द्रमा भवन्नेव विगतधुवर्णो भवन्नेव च विधूभवनसमसमयमेवेति भावः । मकरः ग्राहः भूत्वा पक्षे मधुकरशब्दः धुकारलोपे मकरो भूत्वेत्यर्थः । त्वदेकशरणं इभं गजं अग्रसत ग्रस्तवान् । अत्र भगवत्तनुरुचिविजितस्य तत्प्रतीकारानीशस्य मधुकरस्य रूपान्तरपरिग्रहेण तदेकशरणे वारणे पराक्रमः प्रकटितः । इदमुपदर्शित-