पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
43
समुच्चयालङ्कारसरः (‌५८)

त्मरुचा । श्रीविहृतिकृते रचितं स्थलमिव चित्रं हरेरुरो भाति ॥ १४८५ ॥

 अत्र आरुण्यादिगुणानां यौगपद्येनैकस्मिन् धर्मिण्युरोरूपे आधेयतासंबन्धेनान्वयः । एवमुत्तरत्रापि यथायथं द्रष्टव्यः ॥

 कल्याणगुणगणौघस्मरणात्तव नाथ भाग्यवान्मनुजः । विन्दति हर्षं तर्षं निन्दति नन्दति च तावकोत्कर्षम् ॥ १४८६ ॥

 तर्षं विषयतृष्णां निन्दति । तावकोत्कर्षं नन्दति अभिनन्दतीत्यर्थः ॥

 ननु वासुदेव यं क्षणमचिन्त्यवैभव न चिन्त्यते स भवान् । भ्राम्यति सुजनश्श्राम्यति ताम्यति नितरां तदा न शाम्यति च ॥ १४८७ ॥

 अत्र ‘यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते’ इत्यादिप्रमाणार्थोऽनुक्रान्तः ॥

 रुष्यति सद्भ्यो दुष्यति हृष्यति दुस्सङ्गतस्त्वदनभिज्ञः । तुष्यति विषयैश्शुष्यति पुष्यति दुरितं विशिष्य मुरवैरिन् ॥ १४८८ ॥

 अत्रोदाहरणत्रयेऽपि क्रियाणां युगपदेकधर्मिण्यन्वयः । तत्राप्याद्ययोश्श्लाघ्ये धर्मिणि तृतीये त्वश्लाघ्ये ॥