पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
40
अलङ्कारमणिहारे

प्रायः । अत्र भोगयोगयोरन्योन्यविरुद्धयोर्यौगपद्यायोगाद्विकल्पः । अत्रापि कर्मणोर्भोगयोगयोः क्रियाफलेन दानेनैव समानधर्मेणौपम्यम् ॥

 यथावा--

 नतरक्षणकृतदीक्षस्त्वमिति त्वां नाथ शरणमभिनाथे । आर्तिर्वा मम शाम्यतु कीर्तिर्वा तव नतावनैकान्ता ॥ १४८१ ॥

 त्वं रक्षसि चेन्ममार्तिश्शाम्यति ।

तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम् ॥

 इत्युक्तेः। नचेत् तव शरणागतपरित्राणपरायणत्वनिबन्धनकीर्तिश्शाम्यति ।

विनष्टः पश्यतस्तस्य रक्षिणश्शरणागतः ।
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ।
अस्वर्ग्यं चायशस्यं च बलवीर्याविनाशनम् ॥

 इत्युक्तेः। अत्रोदाहृततुल्यबलप्रमाणाभ्यामार्तिशान्तिकीर्तिशान्त्योर्युगपत्प्राप्तयोरितरेतरविरुद्धतया युगपद्भावासंभवाद्विकल्पः । आर्तिकीर्त्योश्शमनरूपसमानधर्मेणौपम्यं ज्ञेयम् ॥

 क्वचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः ॥

 यथावा--

 किंचिद्वा भूयो वा पञ्चायुधमञ्च मुञ्च जाड्यमये । धात्रीमेतां भोक्ष्यसि वैधात्रीं प्राप्स्यसि श्रियं वाऽपि ॥ १४८२ ॥