पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
38
अलङ्कारमणिहारे

 उदाहरणं--

 निश्शङ्कं शरणंगतमेष द्वेधाऽप्यरिं न बाधेत । राघवमाहवमथवा रजनिचरेश द्रुतं प्रपद्येथाः ॥

 इदं रावणं प्रत्यङ्गदवचनं । एषः राघवः द्वेधाऽपि निश्शङ्कं शरणंगतं अरिं न बाधेत निश्शङ्कं अयं मां बाधेतति संशयरहितं यथास्यात्तथा शरणं गतं अरिं न बाधेत, शरणागतपरित्राणधर्मधुरीणमूर्धन्यत्वात् । पक्षे निश्शं निर्गतश्शकारो यस्मात्तं तथोक्तं शरणं रणमित्यर्थः । गतं युद्धार्थमभिमुखागतं कं अरिं न बाधेत सर्वमप्यभियातिनं बाधत एवेत्यर्थः । तस्मात् राघवं द्रुतं प्रपद्येथाः शरणं व्रज । प्रपूर्वस्य पद्यतेस्तादृशार्थकत्वात् । अथवा आहवं युद्धं प्रपद्येथाः प्राप्नुहि । अत्र प्रपदने संधिविग्रहकर्तव्यताबोधकप्रमाणाभ्यां कर्मतया राघवाहवयोर्यौगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेन प्रपदनेनैव समानधर्मेणौपम्यम् ॥

 नन्वत्र यथा प्रपूर्वकपदिधात्वर्थफलभूतप्रपदनरूपधर्मेक्यात्कर्मणोरौपम्यं गम्यते तथा ‘जीवनं मरणं वाऽस्तु’ इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कर्त्रोरपि औपम्यं गन्तुं युज्यत इति चेत् युज्यते न तु गम्यते । अथ तत्कुतो हेतोरिति चेत् कवितात्पर्यविरहादिति गृहाण । न ह्यत्र मरणं जीवनं च समानमिति कवेस्तात्पर्यं, किंतु विषं भुङ्क्ष्व मा चास्य गेहे भुङ्था इतिवत् धर्माद्धेतोर्मरणमपि ज्यायः न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्ये । तदर्थं च मरणस्योपात्तत्वादविक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेवेत्याहुः । एवं मरणं वा तरणं वेति श्लोके गम्यमानप्रतिज्ञाहानरूपनिषिद्धमादाय तद्गतदोषाधिक्ये प्रतियन्निति श्लोके तु शरणव्रजनरूपविहितगतादराधिक्ये कवे-