पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
36
अलङ्कारमणिहारे

शैलादौ तन्निषेधश्चेत्युक्तपरिसंख्याभेदो व्यक्त एव । अयं च तादृशजनस्य तादृशभारत्वासंबन्धेऽपि तत्संबन्धकथनरूपातिशयोक्तिशबलितेति ध्येयम् ॥

इत्यलंकारमणिहारे परिसंख्यालंकारसरः पञ्चपञ्चाशः.


अथ विकल्पालंकारसरः (५६)


 विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्धयोः ॥

 एकस्मिन् धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोः अत एव तुल्यबलयोर्विरुद्धयोर्विरुद्धत्वादेव युगपप्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवस्यति 'अयं च वक्ष्यमाणसमुच्चयप्रतिद्वंद्वी व्यतिरेक इवोपमायाः' इत्यलंकारसर्स्वस्वकृदनुयायी रसगङ्गाधरकृत् ‘समुच्चये हि द्वयोरपि युगपदवस्थानं, इह त्वन्यधेति तत्प्रतिद्वंद्वित्वम्’ इति विमर्शिनीकारः । दीक्षितास्तु-- वक्ष्यमाणकारकदीपकमलंकारान्तरं वर्णयन्तस्तस्य प्रथमसमुच्चयप्रतिद्वंद्वितां तदनन्तरभाविनस्समाधेर्द्वितीयसमुच्चयप्रतिद्वंद्वितां चाहुः ।

 मरणं तरणं वा स्तान्महाम्बुधेरित्यशायि मतभेदात् । जलधितटे बत भवता रघुवर भवजलधितारकेणापि ॥ १४७५ ॥

'अद्य मे मरणं वाऽस्तु तरणं सागरस्य वा'

 इति श्रीरामायाणश्लोकोऽत्रानुसंहितः । मतभेदात् विकल्पादिति यावत् । ल्यब्लोप पञ्चमी । विकल्पमभिसंधायेत्यर्थः । मर-