पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
34
अलङ्कारमणिहारे

च प्रादिगण एव ‘प्रादयः । गतिश्च' इति सूत्राभ्यां प्रादिगणपठितानां शब्दानामुपसर्गगतिसंज्ञयोरुभयोर्विधानाद्दुरित्यस्य तत्र पठितत्वादिति भावः । विप्रादिगणे प्रादिगणविरुद्धे इत्यप्यर्थ उपस्कार्यः॥

 एषूदाहरणेषु व्यवच्छेदस्य शाब्दत्वेऽपि श्लेषमूलकाभेदाध्यवसायसंभिन्नतया चामत्कारातिशयाद्भवत्येव परिसंख्यालंकारः । एवंच परिसंख्यालंकृतेरार्थीत्वशब्दीत्वाभ्यां द्वैधी द्रष्टव्या । अस्याः प्रश्नपूर्वकत्वतदभावाभ्यां द्वैविध्यं प्राक्तनैरुदाहृतमपि विच्छित्तिविशेषविरहात्कुवलयानन्दकारैरुपेक्षितम् । अस्याश्च श्लेषानुप्राणितत्वे अतिमात्रचमत्कारिता यथा अनुपदमेवोदाहृतेषु पद्येषु पारदनिष्फलीकरणादिशब्दश्लेषेणात्यन्तचारुता प्रतीयत इत्यवधेयम् ।

 अस्यां च परिसंख्यालंकृतौ व्यवच्छेदनियमनयोर्न पौवोपर्यनियमः । यथा शुद्धापह्नुतौ निह्नवारोपयोः । तथाच व्यवच्छेदपूर्वकतायामपि नियमनपूर्वकतायामिव परिसंख्यालंकृतिरक्षतैव ।

 न प्रकृतिवैपरीत्यादनर्थदो नन्दनन्दन भवेस्त्वम् । त्वत्तोऽन्यस्तु तथा स्याद्ब्रह्मा रुद्रोऽथवा न संदेहः ॥ १४७३ ॥

 हे नन्दनन्दन त्वं प्रकृतिवैपरीत्यात् ‘यत्सत्वं स हरिर्देवः, महान्प्रभुर्वै पुरुषस्सत्वस्यैष प्रवर्तकः' इत्याद्युक्तसत्त्वस्वभावविपरीतत्वात् अनर्थदः रजस्तमःप्राचुर्यप्रयुक्तं पुरुषार्थं दाता न भवेः ।

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥