पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
अलङ्कारमणिहारे

 यथावा--

 स्थालीबिलीयतण्डुलराशेरेवास्ति निष्फलीकरणम् । न तु सकलफलद भगवंस्त्वदीयपदविनतकाङ्क्षितार्थानाम् ॥ १४६८ ॥

 स्थालीबिलमर्हन्ति स्थालीबिलीयाः । पाकयोग्या इत्यर्थः । स्थालीबिलात्’ इत्यर्हार्थे छः । ये तडुण्लाः तेषां राशावेव निष्फलीकरणं फलीकरणस्याभावो निष्पीकरणम् । निर्मक्षिकमितिवदर्थाभावेऽव्ययीभावः । फलीकरणं नाम व्रीह्यादिधान्यस्य सूक्ष्मतुषः। अन्यत्र व्यर्थीकरणं नेत्यर्थः ॥

 यथावा--

 अखिलाघहृतिनिदाने मम हृदि नारायणे समिन्धाने । दुरितमरितां भजेद्यदि भजतु दुतं स्यात्तदेव न मनो मे ॥ १४६९ ॥

 दुरितं मयि अरितां विद्वेषं भजेद्यदि भजतु मां कदर्थयितुमुद्युञ्जीत चेदुद्युङ्क्तामिति भावः । तदेव दुरितमेव दुतं स्यात् परितप्तं स्यात् ‘टु दु उपतापे’ इति सौवादिकाद्धातोः क्तः । मे मनस्तु न दुतं स्यात् । भगवतो हरेस्तत्रैव निवासादिति भावः । पक्षे दुरितं दुरितमिति पदं अरितां अविद्यमानरिवर्णतां भजेच्चेत् दुतमित्येव निष्पद्येतेत्यर्थश्च चमत्कुरुते ।

 यथावा--

 संसाराकूपारेऽपारे घोरेऽत्र विलुठतश्शौरे । मम नासि पारदस्त्वं चपलतया पारदोऽहमेवासम् ॥ १४७० ॥