पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
29
परिसंख्यालङ्कारसरः (‌५५)

इत्यत्र नान्यो द्रष्टव्य इत्यर्थस्य प्रतीतेः परिसङ्ख्याऽस्तु, न तु परिसङ्ख्यालंकारः, व्यावृत्तेर्वास्तवत्वेन कविप्रतिभाया अनपेक्षणात् । व्यावृत्तिर्व्यवच्छेदः । ‘को रोगो भवयोगः’ इत्यत्र तु प्रश्नपूर्वकं दृढारोपरूपकम् । अन्यथा 'न विषं विषमित्याहुर्बह्मस्वं विषमुच्यते’ इत्यत्रापि परिसङ्ख्यापत्तेः । ‘साफल्यं क्व नु वचसां’ क्षेत्रं फणिवरगोत्रं' इत्यत्रापि परिसंख्यैव शुद्धा, प्रागुक्ताद्धेतोरनार्थत्वात्’ तस्मात् ‘महानसेषु सन्तापः' इत्यादिकमेवास्या उदाहरणमिति वदन्ति ।

 वस्तुतस्तु व्यावृत्तेश्शाब्दत्वेऽपि कविप्रतिभोन्मीलितश्लेषादिना चमत्कारातिशयश्चेत्तत्रापि न निवार्यते परिसंख्यालंकृतिः ॥

 यथा--

 क्वचिदप्यनूनमम्ब स्वामित्वं ते त्वमेव तत्सेव्या । किं तेन शौरिणा नस्स यदूनां स्वामितां क्वचिदुदूहे ॥ १४६४ ॥

 सः शौरिः यत् यस्मात् क्वचित् समये ऊनां न्यूनां स्वामितां ईश्वरतां उदूहे, क्वचिदवसरे यदूनामिति समस्तं पदं, यदुवंश्यानां स्वामितामिति तु वस्तुस्थितिः । यदुशब्दस्तदपत्ये लाक्षणिकः। अत्र किं तेन शौरिणेति व्यावृत्तेश्शाब्दत्वेऽपि तस्याः श्लेषभित्तिकाभेदाध्यवसायमूलकातिशयोक्तिदत्तहेतूपन्याससमर्थितत्वेन चमत्कारातिशयस्य सहृदयैर्दुरपह्नवत्वाद्भवत्येव परिसंख्यालंकृतिः । एवञ्च ईदृशस्थले व्यावृत्तेश्शाब्दत्वेऽपि परिसंख्यालंकृतेरवश्याश्रयणीयतया अन्यत्रापि तस्या आत्मलाभो नापलपनीयः । तथाच उदाहरिष्यमाणेषु पद्येष्वपि परिसंख्यालंकारस्सुप्रसर एव । अतएव कुवलयानन्दकाराः ‘स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम्’ इत्युदाजह्रुः ॥