पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
26
अलङ्कारमणिहारे

नखा भक्ष्याः' इत्यत्र परिसंख्याया नियमपदेनोक्तिर्महाभाष्येऽपि दृश्यते । क्रमेणोदाहरणानि--

 यद्यस्ति तव दिदृक्षा साक्षाल्लक्ष्मीविलासिनं पश्येः । इष्टा चेत्परिचर्या पर्याप्तं तं त्वमङ्ग परिचर्याः ॥ १४५६ ॥

 अत्र यदिचेच्छब्दाभ्यां निवेदितस्य रागप्राप्तस्य दर्शनादेः कर्मतायाः भगवति श्रीनिवासे विषयान्तरे च प्राप्तत्वेन लिङर्थघटितवाक्यार्थवैयर्थ्यप्रसंगाद्विषयान्तरं न पश्येरित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्तिस्तात्पर्यविषयतया कल्प्यमानत्वादार्थी शुद्धा चेयम् ॥

 को रोगो भवयोगः को वैद्यस्स खलु यः पुमानाद्यः । किं भैषज्यं प्राज्यं यत्तन्नामानुवादसाम्राज्यम् ॥ १४५७ ॥

 अत्र भवयोगादिकमेव रोगादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थीयं प्रश्नपूर्विका च ॥

 क्षेत्रं फणिवरगोत्रं स्थाने जानेऽन्यदूषरक्षेत्रम् । देवस्स वासुदेवस्सुतरामितरस्सविग्रहमृदेव ॥

 अत्र ऊषरक्षेत्रसविग्रहमृत्पदाभ्यां दिव्यक्षेत्रत्वदिव्यदेवत्वव्यावृत्तिः प्रतीयत इतीयं शाब्दी शुद्धा ॥

 यथावा--

 स्वान्तं मम मधुमथनेऽत्यन्तं विलगतु कदाचिदपि न धने । रतिरस्तु तस्य चरणेऽप्रतिमा न तु मे वृथा तपश्चरणे ॥ १९५९ ॥