पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
347
हेतुसरः (१०४)

 यथा--

 त्रिदशाहितकुलशिक्षा त्रिदिववधूकर्णपत्रयुगरक्षा । वेंकटशैलाध्यक्षा व्यक्तिः काऽप्यैक्षि जगदवनदक्षा ॥ १९९८ ॥

 अत्र त्रिदशाहितकुलशिक्षादिहेतोर्भगवतस्तच्छिक्षादिहेतुमतश्चैक्यं वर्णितम् ॥

 यथावा--

 ग्राहगृहीतमतङ्गजजीवितमतिवेलभावितं कृतिभिः । कमलानयनानन्दं कलयेमहि किमपि तेजसां बृन्दम् ॥ १९९९ ॥

 अत्रापि ग्राहगृहीतमतङ्गजजीवितहेतोर्भगवतः तज्जीवितेन फलेन सहैक्यं वर्णितम् ॥

 यथावा--

 स्मितगर्भगण्डफलकं सितरुचिरुचिराभमुल्लसत्तिलकम् । आनन्दमेव भगवन्नदस्फुरितमाननं तवावैमि ॥ २००० ॥

 स्फुरितं अदः इदं तव आननं आनन्दमेव अवैमीति योजना । पक्षे अदस्फुरितं दकारस्फुरणरहितं आनन्दं आननं अवैमि । उत्सारितदकारमानन्दशब्दं आननमिति निष्पन्नं जानामीत्यर्थः । अत्रापि आनन्दहेतोर्भगवदाननस्यानन्देन हेतुमता सहैक्यम् । चमत्कारान्तरं पूर्वोदाहरणतो विशेषः ॥