पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
345
हेतुसरः (१०४)

त्वयि सम्राजि करणत्रयसारूप्येण भक्तिं विदधानः तत्क्रतुनयात्साम्राज्यवैभवमश्नुत इति भावः । अन्यत्र हे सम्राडिति सम्राट्छब्दस्यैव संबोधनम् । यः पुमान् त्वयि सम्राट्छब्दे इत्यर्थः । भावकर्मणोः भावे कर्मणि च एकं प्रत्ययं ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति विहितं ष्यञ्प्रत्ययं आतनुते विधत्ते स पुमान् वृद्धं 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति विहितवृद्धसंज्ञकं सर्वे वर्णाः अक्षराणि गुरवो यस्य तत्तथोक्तं साम्राज्यपदं साम्राज्यशब्दं लब्धुमर्हति । यस्सम्राट्छब्दात् ष्यञं विधत्ते स पुमान् वृद्धं सर्ववर्णगुरु च साम्राज्यमिति पदं प्राप्नोतीत्यर्थः । साम्राज्यमिति पदस्य उक्तरीत्या निष्पन्नस्य वृद्धत्वात्सर्ववर्णगुरुत्वाच्च तथोक्तिः । अत्र पक्षद्वयेऽपि सम्राजि प्रत्ययविधानस्य हेतोस्साम्राज्यपदलाभरूपहेतुमता सह वर्णनम् ॥

 यथावा--

 सामोदसौम्यसुमनास्सत्तरुरिव सुफलदश्शुभच्छायः । स्वपदोपनतं सुखयति भगवान् संसृतिगतागतश्रान्तम् ॥ १९९६ ॥

 सामोदं च सौम्यं अनुग्रं च सुमनः शोभनं मनः यस्य सः । सामोदाः सौम्याः सुमनसो देवाः नित्यसूरयो वा यस्मात्स इति वा । पक्षे ससौरभसुकुमारकुसुम इत्यर्थः । सुफलदः निश्श्रेयसपर्यन्तसकलफलप्रदः । अन्यत्र फलानि स्वपरिणतानि ददातीति तथोक्तः । अनघा सर्वदुःखनिवर्तिनी छाया दीप्तिः अनातपश्च यस्य सः भगवान् सत्तरुरिव माकन्दादिशुभवृक्ष इव संसृतिगतागतेन संसारयातायातेन, अन्यत्र सम्यक् सृतौ मार्गे गतागतेन श्रान्तं स्वपदोपनतं स्वचरणशरणागतं स्वमूले विश्र-

 ALANKARA-- III.
44