पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
344
अलङ्कारमणिहारे

 शुभा या जनकभूः सीता तस्याः हरः दशास्यः येन कोसलराजा अवधि अहन्यत स एव कोसलराट् दाशरथिः असः स न भवतीत्यसः अकोसलराजरूप इति यावत् । ‘एतत्तदोः' इति सूत्रे ‘अनञ्समासे’ इति पर्युदासान्न तच्छब्दस्य सुलोपः । पक्षे असः सवर्णरहितः कोसलराट् कोलराट् । पुरा वराहश्रेष्ठस्सन्नित्यर्थः । तादृक्षं शुभजनकभूहरं शुभजनिका जगत्क्षेमप्रदा या भूः पृथ्वी तस्याः हरमित्यर्थः । हिरण्याक्षं जगतां शुभाय कल्याणाय अवधीत् । अत्र रावणहिरण्याक्षवधलक्षणहेतुना सह जगच्छुभलक्षणहेतुमतः प्रतिपादनम् ॥

 यथावा--

 यस्त्वयि सम्राट् प्रत्ययमातनुते भावकर्मणोरेकम् । सोऽर्हति साम्राज्यपदं लब्धुं वृद्धं समस्तवर्णगुरु ॥ १९९५ ॥

 हे सम्राट् राजाधिराज हे भगवन् ! ‘मो राजि समः क्वौ' इति समो मकारस्य मकार एव । नानुस्वारः 'सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः' इति रत्नमाला । ‘एष ब्रह्मलोकस्सम्राडिति होवाच । राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्’ इत्यादिप्रमाणान्यत्रानुसंहितानि । यः पुमान् त्वयि विषये भावकर्मणोः मनःकर्मणोः । इदं वचसोऽप्युपलक्षणम् । एकं एकरूपं--

 'वचस्येकं मनस्येकं कर्मण्येकं महात्मनाम्'

इत्युक्तरीत्या अविसंवादीत्यर्थः । प्रत्ययं विश्वासं ध्यानं वा आतनुते । स पुमान् वृद्धं अभिवृद्धिमत् समस्तैः वर्णैः ब्रह्मक्षत्रादिभिः गुरु श्रेष्ठं साम्राज्यपदं आधिराज्यस्थानं लब्धुं अर्हति ।