पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
340
अलंकारमणिहारे

भूततापत्रयनरकादिदुःखकरं वा भवतु नहनमेव खलु यथा तथा वा बन्धनमेव भवति खलु न हि सुवर्णमयमपि निगळं न बन्धनायावकल्पते अयोमयमेव बन्धकमिति दृष्टं श्रुतं वेति भावः । पक्षे नहनं नहनमित्याकारकं पदं अनुकूलं अनुलोमतया पठितं प्रतिकूलं प्रतिलोमतया पठितं वा नहनमेव उभयथाऽपि नहनमित्येव निष्पद्यत इत्यर्थः । अत्र नहनस्य नहनत्वविधानमनुपपद्यमानं निश्श्रेयसगतिप्रतिरोधितां गर्भीकरोति । सा च पुण्यापुण्यकरणकत्वविशेषणात्प्रकाशिता । ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इत्यादिश्रुतिभिः पुण्यापुण्यविधूननानन्तरमेव हि निश्श्रेयसगतिः प्रतिपाद्यते । यद्वा तन्नहनत्वविधानं भगवदितरदुर्मोचत्वं गर्भीकरोति ।

पशवः पाशिताः पूर्वं परमेण समाधिना ।
तेनैव मोचनीयास्ते नान्यो मोचयितुं क्षमः ॥

इति प्रमाणात् 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्यादिकमप्यत्रानुकूलम् । एषु विधिप्रतिषेधोदाहरणेषु अर्थान्तरसंक्रमितवाच्यलक्षणव्यङ्ग्यार्थसद्भावेऽपि न ध्वनित्वव्यपदेशः, तेषां व्यङ्ग्यानां 'निरुपमकरुणाशिशिरा । जगदीश्वरतद्दासौ' इति स्वोत्क्यैवाविष्करणात् । ननु चाक्षेपालङ्कारावान्तरभेदत्वेन विधिप्रतिषेधयोः पूर्वमुक्तेर्न पृथगलंकारतया परिगणनमुचितमिति चेत् बाधितयोस्तयोराक्षेपभेदत्वमभ्यधायि प्राक् । इह तु सिद्धयोरलंकारतेति गृह्यताम् ॥

इत्यलंकारमणिहारे विधिसरस्त्र्यधिकशततमः.