पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
336
अलङ्कारमणिहारे

त्वत्पदाभिघातहेतुकरुधिरस्राविमस्तकत्वप्रयुक्तावमानेन कस्यापि मुखं दर्शयितुमपत्रपिष्णुतया क्वापि निलीन इति भावः । तत् तस्मात् एष शोणमणिः पद्मरागः लोहितकः आसीदित्यनुषज्यते । लोहितकः लोहितं रुधिरं के शिरसि यस्य स तथोक्तः तन्नामा आसीत् । परमार्थतस्तु लोकयोः लोवर्णकवर्णयोः अन्तः मध्ये हितौ हिकारतकारौ यस्य स तथोक्तः । शब्दार्थयोस्तादात्म्यम् । लोहित एव लोहितकः तन्नामा ‘लोहितान्मणौ’ इति स्वार्थिकः कन् । 'शोणरत्नं लोहितकः' इत्यमरः । अत्र स्वार्थकना निष्पन्नस्य लोहितक इति नाम्नो योगान्तरेणार्थान्तरकल्पनं चमत्कारान्तरं स्फुटमेव ॥

इत्यलंकारमणिहारे निरुक्तिसर एकशततमः.


अथ प्रतिषेधसरः (१०२)


प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ।

 यः प्रसिद्धो निषेधानुवादो ज्ञातत्वात् स्वतोनुऽपयुक्तोऽर्थान्तरगर्भीकारेण चारुतामाधत्ते स प्रतिषेधालंकारः ॥

 यथा--

 न सुधांशुना न सुधया न मलयमरुता न चापि तुहिनभृता । निरुपमकरुणाशिशिरास्स्वेनैव कृता रमेश तव भक्ताः ॥ १९८३ ॥

 अत्र भगवद्भक्तानां सुधांशुप्रभृतिनिर्मितत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां सुधांशुप्रभृतिभ्योऽप्यतिशयिततया शैशिर्य-