पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
330
अलङ्कारमणिहारे

 अत्र जनैस्सर्वान् पुमर्थान् अर्द्यते याच्यत इति व्युत्पादितस्य जनार्दननाम्नः उक्तरीत्या योगतोऽर्थान्तरकल्पनम् ॥

 यथावा--

 अतिविशदमधुरतावकवचोरसस्ते यतस्सुधाब्धिसुते । तेनैव गुणेन सिता बभूव तच्छर्करा सितेति जगे ॥ १९६८ ॥

 हे सुधाब्धिसुते! इदं तद्वाग्रसेऽपि विवक्षिततद्गुणानुवर्तनाभिप्रायकम् । शर्करा तेनैव उक्तविशेषणतावकवचोरसेनैव कर्त्री गुणेन करणभूतया रज्ज्वा सिता अपराधानुगुणशिक्षणाय सन्दानिता । परमार्थतस्तु-- तेनैव गुणेन विशदिम्ना मधुरिम्णा च गुणेनैव सिता विशदा बद्धा च ‘षिञ् बन्धने’ कर्मणि क्तः संबद्धेत्यर्थः । उक्तविशेषणविशिष्टश्रीवाग्रसचौर्यादेवास्या वैशद्यमाधुर्यलाभश्शर्कराया इति भावः । अतः एवं बद्धत्वादेव सितेति जगे अगीयत ‘शर्करा सिता’ इति नैघण्टुकैरिति भावः । अत्र सितेति शर्करानाम्नो योगतोऽर्थान्तरकल्पनम् ॥

 यथावा--

 पदवीवशात्प्रविशतो यदभूच्चन्द्रस्य विश्रमस्थानम् । त्वदुदवसितशीर्षगृहं तदुच्यते नाथ चन्द्रशालेति ॥ १९६९ ॥

 अत्र चन्द्रशालेति नाम्नोऽर्थान्तरकल्पनं योगेन ॥

 यथावा--

 यद्विश्वनामरूपव्याकरणपटीयसी तव प्रेक्षा । तत्त्वां शेषगिरीश्वरमवैमि सच्छब्दितं हरे सत्यम् ॥ १९७० ॥