‘एषोऽणुरात्मा । महतो महीयान्' इति श्रुतिरत्रानुसंधेया । विहितः अनुष्ठितः उपायः भक्तिप्रपत्त्यन्यतरसाधनं यैस्ते तथोक्ताः । क्रीतं वितन्वते । ‘भावक्रीतो जनार्दनः । भक्तिक्रीतो जनार्दनः' इत्युक्तेरिति भावः ॥
यथावा--
धानापूर्णप्रसृतेर्दानात्त्वत्तो रमापतेऽक्रीणात् । दीनावन मानातिगनानाविधसंपदं कुचेलमुनिः ॥
धानापूर्णप्रसृतेर्दानादित्यत्र विशेष्यभूतायाः प्रसृतेर्दानायोगात्प्रसृतिपूर्णधानादानादिति विशेषणभूतधानासु दानस्यान्वयः । स्वर्गी ध्वस्त इत्यादिवत् । वदन्ति हि ‘सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामतः’ इति न्यायविदः । हे दीनावनेति संबुद्ध्यन्तं पदं रमापते इत्यस्य विशेषणम् ॥
यथावा--
पदसलिलमयीं कामपि दत्वा स्रोतस्विनीं पयोनिधये । तेजस्विनीमुपादास्तस्मात्कन्यामणिं मणिं च विभो ॥ १४४९ ॥
विभो भगवन्! पयोनिधये स्रोतस्विनीं दत्वेत्यनेन अनपेक्षितदानमुक्तम् । स्रोतस्विनी नदी । अत्रोदाहरणत्रयेऽपि न्यूनेनाधिकपरिवृत्तिस्स्पष्टा । इमानि अष्टाङ्गयोगेत्यादीनि पञ्चोदाहरणानि शुद्धानि ॥
यथवा--
वसुधातनयास्तनयोस्समर्पयन् पञ्चशाखमतिकुतुकात् । ताभ्यां सहस्रशाखं प्रमोदमनुविन्दतेऽरविन्दाक्षः ॥ १४५० ॥