पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
327
अत्युक्तिसरः (१००)

 त्रिपाद्विभूतेः ‘त्रिपादस्यामृतं दिवि’ इति श्रुतायाः नित्यविभूतेः परतः परितः स्फुरता ज्वलता त्वद्योधानां सुग्रीवहनुमदादीनां तेजसा प्रतापेन । सा त्रिपाद्विभूतिः अत्यर्कानलदीप्तिः अतिक्रान्तभानुवह्निज्योतिः व्यरचि । अत्र--

ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते ।
देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं परम् ॥
अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ।

इति प्रमाणमिहानुसंधेयम् । इयं शौर्यात्युक्तिः ॥

 औदार्यात्युक्तिर्यथा--

 स्वकटाक्षलब्धनिरवधिविभवानां दानमनवधि नराणाम् । वीक्ष्य स्वयमर्थितया तद्गृहमभ्येत्य चलति न ततश्श्रीः ॥ १९६४ ॥

 अत्र श्रीरपि स्वकटाक्षाधिगतविभवानां जनानां गृहमर्थित्वेनाभ्येत्य ततो न चलतीत्यनेन तद्भक्तानामौदार्यात्युक्तिः । ततो न चलतीत्यनेन तद्भक्तसंपदोऽक्षयत्वं व्यज्यते ॥

 यथावा--

 अर्थितया प्रतिहारं त्वदुदञ्चितसंपदां नृणामम्ब । गच्छतिचेद्भिक्षाको गच्छतु धनदोऽपि याति भिक्षायै ॥ १९६५ ॥

 कुबेरोऽपि त्वत्कटाक्षसमधिगतसंपदां जनानां गृहद्वारं भिक्षार्थं गच्छतीत्यौदार्यात्युक्तिः । भिक्षाको महेश्वर इत्यर्थान्तरमपि प्रतीयते ॥