पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
320
अलङ्कारमणिहारे

 यथावा--

 सम्मर्दकुपितबलपतिवेत्रहतित्रुटितकोटिकोटीरान् । अद्यापि पद्मजाद्यांस्त्वद्द्वारीक्षामहे वृषाद्रिमणे ॥ १९५२ ॥

 यथावा--

 भवता वालिदशास्यौ भग्नौ रघुवीर दृष्टवन्तं पूर्वम् । अहहा इत्यधुनाऽपि च सहस्रनयनं सहास्रनयनं वीक्षे ॥ १९५३ ॥

 अहह आ इति छेदः। एतौ द्वावपि निपातौ यथाक्रमं वालिस्मरणजनितखेदे रावणस्मरणाद्भुते च वर्तेते । आ इतीत्यत्र 'निपात एकाजनाङ्’ इति प्रकृतिभावः । अङिदेवायं निपातः, स्मरणार्थकत्वात् । अनुशिष्यते हि ‘वाक्यस्मरणयोरङित्’ इति । अहह आ इति अयं दुःखाश्चर्यद्योतको वागारम्भसंभवोऽनुभाव: । अहह आ इति अद्यापि अस्रेण शोकानन्दजन्येनास्रेण सह वर्तन्ते इति सहास्राणि ‘वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वान्न सहशब्दस्य सभावः । तादृशानि नयनानि यस्य तं तथाविधं अद्यापि वालिवधजनितशोकाश्रुनयनं रावणवधजनितप्रमोदाश्रुनयनं च वीक्षे इति भावः । पक्षे सहस्रनयनशब्दं अहहाः अविद्यमानः हः हकारो येन सः अहः अहः हाः हा इति वर्णः यस्य तथोक्तः हकारच्यावनेन तत्रैव हाकारेण घटित इत्यर्थः । इति हेतोः सहास्रनयनं वीक्षे उक्तरीत्या सहस्रनयनशब्दस्य तथाभूतत्वादिति भावः । इदमपि भूतविषयसाक्षात्कारवर्णनमेव । चमत्कारान्तरं तु पूर्वेभ्यो विशेषः ॥