पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
318
अलङ्कारमणिहारे

 मितसितहसितविकस्वरकपोलफलकं कुरङ्गमदतिलकम् । वृषशिखरिनित्यभोग्यं वृणीमहे मनसि किमपि सौभाग्यम् ॥ १९४८ ॥

 अनयोः पद्ययोर्द्रव्यस्वभाववर्णनम् ॥

इत्यलङ्कारमणिहारे स्वभावोक्तिसरस्सप्तनवतितमः.


अथ भाविकसरः (९८)


वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ।
प्रत्यक्षे इव दृश्येते यत्र तद्भाविकं मतम् ॥

 यत्रात्यद्भुतचरितोपवर्णनादतीतानागतयोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न चातीतानागतयोः प्रत्यक्षवदवभासो विरुद्धः, अत्यद्भुतवस्तुवर्णनेन भाविकानां हृदि भावनोदयात् । तथाच भावनायाः प्रकर्षेण घटत एव प्रत्यक्षायमाणत्वं भूतभाविनोरप्यर्थयोः । यथा--

वृक्षेवृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।
असीनस्संविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् ।
चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥

 इत्यादौ । न चेयं स्वभावोक्तिः, तत्र हि वस्तुस्वभावस्य यथावद्वर्णनेन प्रत्यक्षायमाणता । इह तु अद्भुंतत्वेन । नापि रसवदाद्यलङ्कारः, यत्तत्र विभावानुभावाद्यनुसंधानेनैव रसादेर्भा-