पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
317
स्वभावोक्तिसर: (९७)

स्नाम् । हुंभारवगम्भीरां गव्यां सायं निवर्तयति शौरिः ॥ १९४४ ॥

 गव्यां गवां समूहं ‘तस्य समूहः' इत्यधिकारे ‘खलगोरथात्' इति यत् । सुपीवराणि ऊधांसि आपीनानि यस्यास्तां तथोक्तां ‘ऊधस्तु क्लीबमापीनम्' इत्यमरः । ‘ऊधसोऽनङ्' इत्यनङि ‘बहुव्रीहेरूधसो जीष्'। स्फुटार्थकमन्यत् । अत्र गोजातिस्वभावस्य वर्णनम् ॥

 खञ्जितहरिनीलमदं मञ्जुलतापिञ्छपिञ्छसच्छायम् । अञ्जनयति मामकदृशमञ्जनगिरिकुञ्जधामहरिधाम ॥ १९४५ ॥

 अञ्जनगिरिकुञ्जधामा यो हरिः तस्य धाम रोचिः इदं कर्तृ । मामकदृशं अञ्जनयति अञ्जनवतीं करोति अञ्जनशब्दान्मतुबन्तात् णाविष्ठवद्भावेन ‘विन्मतोः’ इति मतुपो लुक् । अत्र गुणस्वभाववर्णनम् ॥

 इतरेतरांसघट्टनहृषिततनुरुहं विवाहवेदिगतम्। अन्योन्यप्रहिताहृतदृगन्तमाभातु दिव्यमिथुनं तत् ॥ १९४६ ॥

 अत्र क्रियास्वभाववर्णनम् ॥

 उरसि रमां निदधानं करयोश्चक्रं दरं च विदधानम् । कनकाम्बरं दधानं कनतान्मम मनसि फणिगिरिनिधानम् ॥ १९४७ ॥