पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
313
वक्रोक्तिसरः (९६)

अत्र त्यज्जल्पितयोः मीनेक्षणे कमनमिति पदयोः स्थितं मं मकारं दं दकारं जल्प मकारं दकारतयोच्चारयेत्यर्थः । तदा दीनेक्षणे कदनमिति निष्पद्यते । त्वया वञ्चितां मां दीनेक्षणे इति संबोधय । कदनं मनोव्यथेति यावत् । पुरत एव स्थितं एवं वञ्चयति त्वयि स्पष्टमेवाग्रे स्थितं न तु मीमांसनीयमिति भावः । अत्र मकारच्यावनेन तत्रैव दकारविन्यसनेन च विकृतेन श्लेषेणार्थान्तरपरिकल्पनम् ॥

 यथावा--

 यश्शुक्लभासितरुचिर्येन वलक्षश्रियोदधारि ग्लौः । स वृषाकपिस्त्रिजगतां नाथोऽलं वद पुनस्स एव भवेत् ॥ १९३८ ॥

 अयमपि शैववैष्णवोक्तिप्रत्युक्तिरूप एव । यः शुक्ला शुभ्रा भासीती भसितसंबन्धिनी रुचिः यस्य स तथोक्तः धवळभस्मोद्धूळित इति यावत् । वलक्षश्रिया स्वतः पाण्डुरमूर्तिना येन ग्लौः शशाङ्कः उदधारि उच्छृतत्वेन धृतः शिरसा धृत इति यावत् । सः वृषाकपिः हरः त्रिजगतां नाथ इत्यभिप्रायवती शैवोक्तिः । वैष्णवेन पुनः--अलं पुनर्वद पर्याप्तं पुनर्ब्रूहि पर्यालोच्य ब्रूया इत्यर्थः । स एव त्वदुक्त एव त्रिजगतां नाथो भवेदित्यन्वारुह्य वद अलं लकाररहितं वदेत्यर्थान्तरगर्भीकारात्त्वदुक्तवाक्ये लकारलोपेन यः शुकभासितरुचिः येन वक्षश्श्रिया उदधारि गौरिति निष्पाद्य यः शुक इव भासिता रुचिर्यस्य स तथोक्तः मरकतश्यामल इति भावः । वक्षसि श्रीः यस्य वक्षश्श्रीः तथोक्तेन येन गौः भूः उदधारि उद्धृता ‘उद्धृ-

 ALANKARA-- III.
40