पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
304
अलङ्कारमणिहारे

 यथावा--

 त्वद्विमुखोऽम्बुजलोचन मद्वंशे मा जनिष्ट कश्चिदपि । विकलस्स्वयं प्लवङ्गस्सकलं वनमपि कदर्थयेन्नूनम् ॥ १९१५ ॥

 अत्र ‘मा जनिष्ट स नो वंशे’ इत्युपक्रम्य ‘आजन्मनिधनं यस्य वासुदेवो न दैवतम्’ इति वचनैकदेशार्थसंग्राहके प्रपन्नवचने विकलस्स्वयं प्लवङ्ग इत्यान्ध्रदेशप्रसिद्धलोकप्रवादोऽनुकृतः । तत्र सर्वेश्वरेश्वरे त्वयि वैमुख्यमश्नुवानः अतिचपलतया कपिप्राय एव । स हि अचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यभक्तिपरिपूर्णतया महावनमिवातिगभीरतमं स्वकुलमपि स्वदौरात्म्येनाकुलयेदित्यर्थान्तरमपि गर्भितम् ॥

 यथावा--

 ननु कस्मिन् वल्मीके वृजिनगतिः कीदृगस्तिवेति वदन् । सङ्गात्स्जनस्यापि त्रस्यति भगवंस्त्वदेकशरणो यः ॥ १९१६ ॥

 वृजिनगतिः जिह्मगः । अत्रान्ध्रभाषाप्रसिद्धलोकप्रवादानुकृतिः । प्राकृतो जनस्तमोमयतया दुर्जन्तुसंवलिततया चातिभयङ्करो वल्मीकप्राय एव तस्मिन् वृजिनगतिः दुरितानुबन्धः कीदृग्वेत्यर्थान्तरगर्भिता । अत्र--

अप्येकपङ्क्तौ नाश्नीयाद्ब्राह्मणैस्स्वजनैरपि ।
को विजानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥

 इति स्मृत्यर्थच्छायाऽनुसृता ॥

इत्यलङ्कारमणिहारे छेकोक्तिसरः पञ्चनवतितमः.