पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
अलंकारमणिहारे

चित्रीकरणाभिलाषपूर्वकतप्तायश्शलाकाकरणकस्वाङ्गलेखनकर्मोत्तम्भनाभिप्रायेण । दृष्ट्वा तप्तायसा तप्तायश्शलाकयेति यावत् । कायं स्वाङ्गं लिखन् क्रोष्टा जम्बुक इव । स्पष्टमन्यत् । अत्रोत्तरार्धे कर्णाटान्ध्रदेशीयभाषाप्रसिद्धलोकप्रवादानुकृतिः ॥

 यथावा--

 शिक्षितमपि कौटिल्यं त्यक्ष्यति नैवासुरप्रकृति हृदयम् । अपि वेणुदळाबद्धं श्वापुच्छं किमु ऋजूभवेद्भगवन् ॥ १९०८ ॥

 शुनः पुच्छं श्वापुच्छं ‘शुनो दन्तदंष्ट्रा’ इत्यादिना दीर्घः । अत्रान्ध्रदेशप्रसिद्धलोकप्रवादानुकरणम् ॥

 यथावा--

 शौरे त्वदन्यदैवं प्रत्येत्य भवाब्धितरणमाशंसन् । विश्वस्य महाबुद्बुदमभिपतति प्रावृषेण्यसरिति जनः ॥ १९०९ ॥

 अत्राप्यान्ध्रदेशीयलोकप्रवादानुकृतिः ॥

 यथावा--

 महता योगेन त्वामिह तावदुपास्य यो महोदारम् । आलम्बेताल्पफलं शैलं खात्वाऽऽखुमेष गृह्णाति ॥ १९१० ॥

 यथावा--

 सत्स्वपि सुदर्शनादिषु नखरैः प्रतिचस्करे त्वया दैत्यः । ननु नरहरे किमर्था नखापनेये परश्वथापेक्षा ॥ १९११ ॥