पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
301
लोकोक्तिसरः (९४)

णाकारगोपने व्याजोक्तिः । तदन्यव्यापारेणाशयगोपने युक्तिरित्येव व्यवस्थामाश्रित्य पृथगिमावलङ्कारौ लक्षितौ । दीक्षितानामपि व्याजोक्तिप्रकरणे ‘आयान्तमालोक्य’ इति पद्ये व्याजोक्तिरेवेति लेखनं मतान्तरानुरोधेन । युक्त्यलङ्कारप्रस्तावे तस्मिन्नेव पद्ये युक्तिरेवेति लेखनं तु तत्रैव स्वनैर्भर्व्यं प्रकाशयितुमिति न पूर्वोत्तरग्रन्थविरोध इति समाधेयम् । एवंच व्याजोक्त्यलङ्कारप्रकरणे उदाहृते 'यमुनातटीनिकुञ्जाद्व्रजम्' इति पद्येऽपि युक्त्यलंकार एव न तु व्याजोक्तिरिति दिक् ॥

इत्यलंकारमणिहारे युक्तिसरस्त्रिनवतितमः.


अथ लोकोक्तिसरः (९४)


 लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि ॥

 लोकानां जनानां यः प्रकृष्टो वादः उक्तिः प्रकर्षश्च तत्तद्देशानुसारेण तत्तद्देशीयजनपरंपरागतत्वम् तादृशवादस्यानुकृतिः उल्लेखः यः स लोकोक्तिरित्यर्थः । अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

 यथा--

 तव वेषवहनतोऽभवदवहसनपदं स पौण्ड्रको भगवन् । क्रोष्टेव चित्रकायं दृष्ट्वा तप्तायसा लिखन्कायम् ॥ १९०७ ॥

 चित्रकायं व्याघ्रं ‘पुण्डरीकः पञ्चनखश्चित्रकायमृगद्विषौ’ इत्यमरः । चित्रकायशब्दोपादानं वक्ष्यमाणजम्बुककर्तृकस्वाङ्ग-