पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
300
अलंकारमणिहारे

ष्ठी । स्वैरमुपलालयन्ती कीरमुपागात्कलिन्दजातीरात् ॥ १९०६ ॥

 अत्र स्वैरकीरोपलालनक्रियया अधरबिम्बस्य तद्दंशनभ्रमजननेन नन्दनन्दनरदनक्षतिरूपमर्मगोपनेन परवञ्चनम् । बिम्बोष्ठीति विशेष्यं बिम्बीफलभ्रान्या शुकेन दष्टस्स्यादयमधर इति भ्रमोत्पादनोपष्टम्भकम् ॥

 अत्र व्याजोक्तावाकारगोपनम्, युक्तौ त्वाशयगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या गोपनं, इह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरिं प्रतोळ्याम्’ इति पद्येऽपि युक्तिरेवेति कुवलयानन्दे स्थितम् ॥

 अत्रेदं चिन्त्यं-- उक्तिक्रियाकृतगोपनभेदादनयोर्भेद इति न युक्तं, व्याजोक्तिप्रकरणे दीक्षितैरेव उक्तिशब्दस्य गोपनसाधनान्तरप्रत्यायकव्यापारमात्रोपलक्षणतायाः स्फुटतया प्रतिपादितत्वात् । तथैव तत्रैव "आयान्तमालोक्य" इत्युदाहरणे स्पष्टतया लक्षणस्याप्यनुगमितत्वाच्च । अतो विवक्षितस्य वस्तुनः केन चिद्व्यापारेण परवञ्चनार्थं यद्गोपनं तद्व्याजोक्तिरित्येव व्याजोक्तिलक्षणं प्राचां युक्त्यलङ्कारं पृथगलक्षयतामभिमतं, स च व्यापारः क्वचिदुक्तिरूपः, क्वचित्तदन्यरूपः, गोपनीयश्च क्वचिदाकारः क्वचित्तदन्यदाशयादिकमिति विभागो युक्त इति न व्याजोक्तितोऽतिरिच्यते युक्तिरिति । अतः ‘आयान्तमालोक्य’ इत्यत्र युक्तिरेवेति पूर्वोत्तरविरोधेन लेखनं चिन्त्यमेव । लाघवेन व्याजोक्तेरेवोक्तरीत्या संभवादित्याहुः ॥

 अस्माभिस्तु--व्याजोक्तावुक्तिग्रहणस्याकारगोपनार्थहेत्वन्तरप्रत्यायकव्यापारमात्रोपलणताया अस्वीकारेण उक्तिरूपव्यापारे-