पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
298
अलंकारमणिहारे

 दयस्व वामे त्वया अवियुक्तः इति छेदः । प्रकृते प्रस्तुते समये हे प्रतीपदर्शिनि! हे वामे सुन्दरि! निजैः गुणैः वक्त्रिममानादिभिः मा विमोहयसि । किंचिद्दयस्व । मा स्मैवं मोमुह इति भावः । त्वया अवियुक्तः अविश्लिष्टस्सन् । नित्यं अनारतं सुखं लभेय प्राप्नुयाम् । पक्षे दयस्व वा मे त्वया वियुक्त इति छेदः । हे प्रकृते ! इति मूलप्रकृतेस्संबोधनम् । ‘प्रधानं प्रकृतिः स्त्रियाम्' इत्यमरः । हे प्रतीपदर्शिनि! 'मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं’ इति गदितप्रकारेण सर्वं प्रतीपं प्रतिकूलं दर्शयतीति तथोक्ता । णिजन्ताद्दृशेर्णिनिः । तस्यास्संबुद्धिः निजैः गुणैः सत्वादिभिः मां नित्यं विमोहयसि विपरीतदर्शिनं करोषि । मे मम ‘दैवीं गुणमयीं मायां दासभूतश्शरणागतोऽस्मि तवास्मि दास इति वक्तारं मां तारय’ इत्युक्तरीत्या त्वां शरणं गतस्येति भावः । वाशब्दो भिन्नक्रमः । किंचिद्वा दयस्व । परिपूर्णदयाकरणाभिप्रायाभावे किंचिदपि वा दयां कुर्वीथा इत्यर्थः । तावता को लाभ इत्यत आह--त्वयेति । त्वया वियुक्तः वियोगं प्राप्तस्सन् । इदमेव तव दयाकार्यं यथाऽहं मुच्येयेति भावः । ततश्च किं तवेत्यत आह--नित्येति । नित्यसुखं मुक्तानन्दं लभेयेति । अत्र तावत् ईर्ष्याकलुषितनायिकाप्रसादनव्यापारविधिः प्रतीयते । प्रकृतिगुणकलुषितस्य प्रकृतिं प्रत्याक्रोशो विवक्षितार्थः । स च सप्तम्यन्तस्य प्रकृते इति पदस्य प्रतीपदर्शिनीति संबुद्ध्यन्तपदान्तरसमभिव्याहारपूर्वकमुच्चारणेन संबुद्ध्यन्ततामवगमय्याविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थं, कविगुप्तं तु स्वप्रौढिदर्शनार्थमिति भिदा ॥

इत्यलङ्कारमणिहारे विवृतोक्तिसरो द्विनवतितमः