पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
296
अलङ्कारमणिहारे

दयितं सर्वलोकेश्वरं वा ‘त्रिष्वध्यक्षेऽपि वल्लभः' इत्यमरः । घनं रत्नं कौस्तुभो यस्य स तथोक्तः । स चासौ श्रीवत्साङ्कः भगवान् तं अनालोक्यापि कस्माद्धेतोः मां श्रियमेव पश्यसि । भगवन्तमपि पश्येति भावः । गूढार्थस्तु--हे कमन कामुक ! वल्लभं मद्भर्तारं आलोक्यापि घना च सा रत्नश्रीश्च सा वत्से वक्षसि यस्यास्तां घनरत्नश्रीयुक्तं वत्सं यस्या इति वा । मा कस्मात्पश्यसि । मद्भर्तुस्समक्षं मा द्राक्षीरिति भावः । इदमपि परवञ्चनार्थगुप्ताविष्करणमेव ॥

 त्रपागुप्ताविष्करणं यथा--

 स्मरदीनामेनां त्वं सुभगोविन्दातप्तहृदयां माम् । नाथ विमृशन्विविक्तामिति गोप्या शौरिरिङ्गितमबोधि ॥ १९०२ ॥

 स्मर दीनां एनां त्वं सुभगः विन्द अवतप्तहृदयां मां इति प्राथमिकार्थकक्ष्यायां पदच्छेदः । शोभनः भगः ऐश्वर्यादिषाड्गुण्यं यस्य सः सुभगः तस्य संबुद्धिः हे नाथ सर्वेश्वर ! त्वं एनां मामिति भावः । दीनां स्मर । एषा कृपणेति जानीहीति भावः । अत एव अवतप्तहृदयां तापत्रयक्षुभितमानसां मां विन्द प्राप्नुहि । रक्ष्यत्वेन स्वीकुरुष्वेति यावत् । स्वपरिग्रहे हेत्वन्तरं चाभिप्रयन्ती प्राह --विविक्तां पवित्रशीलां शरण्यान्तरचिन्तनासंवलिततया स्वच्छामिति भावः । ‘विविक्तौ पूतविजनौ' इत्यमरः । विमृशन् सम्यग्विचारयन् विन्देत्यन्वयः गूढाभिप्रायपक्षे तु— स्मरदीनां एनां त्वं सुभ गोविन्द अव तप्तहृदयां मां इति छेदः । हे नाथ प्रिय! सर्वानपि पुरुषार्थान् त्वमेव याचनीय इति भावः । हे गोविन्द! त्वं स्मरेण दीनां अत एव