पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
291
गूढोक्तिसरः (९१)

न्धानाय निर्दिष्टतया विच्छित्तिविशेषसद्भावेन पारिशेष्याद्गूढोक्तिरित्यलङ्कारान्तरमेव युक्तमाश्रयितुम् । न चात्र तटस्थातिसंधानरूपव्यङ्ग्यस्य स्वोक्त्याऽविष्करणविरहाद्ध्वनिरेवायं नालङ्कार इति वाच्यम्, श्लेषतस्तस्यार्थस्याविष्करणेन ध्वनेरसम्भवादित्याहुः ॥

 यथावा--

 करुणार्द्रचित्तभवतापाल्या परिदीनमानसा सेयम् । नान्यत्काङ्क्षति नाथ त्वदपाङ्गविलासलाभवैभवतः ॥ १८९६ ॥

 हे करुणार्द्रचित्त हे नाथ जगदीश्वर! परिदीनमानसा सेयं तन्वी । त्वदपाङ्गविलासलाभवैभवतः त्वत्कटाक्षप्रसरणावाप्तिविभवात् अन्यत् न काङ्क्षति । अतः भवता त्वया पाल्या रक्षणीयेति भगवन्तं प्रति प्रार्थना । गूढार्थस्तु-- हे करुणार्द्र हे नाथ वल्लभ! चित्तभवतापात्येति समस्तं पदम् । चित्तभवतापानां मनसिजतापानां आल्या पङ्क्त्या कन्दर्पज्वरपरंपरयेत्यर्थः । परिदीनमानसा सेयं तन्वी । त्वदपाङ्गेत्यत्र त्वदिति भिन्नं पदं पञ्चम्येकवचनान्तम् । त्वत् त्वत्तः अपाङ्गः अनङ्गः तस्य विलासः रतिरित्यर्थः । तस्य लाभः प्राप्तिरेव वैभवं तस्मात् तत्तः । अन्यत् न काङ्क्षति । अत्र नाथेति नन्दनन्दनं सम्बोध्य तस्माद्रतिमेव प्रार्थयमानायाः कस्याश्चिद्व्रजललनायास्तटस्थवञ्चनाय भगवन्तं प्रत्यात्मनस्संसारतापदीनत्वेन कटाक्षमात्राशंसनस्य प्रत्यायनम् ॥

इत्यलङ्कारमणिहारे गूढोक्तिसर एकनवतितमः ॥