पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
290
अलङ्कारमणिहारे

 यथावा--

 त्वं वत्सजातलालस आयातस्तज्जिघृक्षुरसि बाढम् । अविदूरे चरति प्रिय एष ततो गोपबाल किं त्वरसे ॥ १८९५ ॥

 इदं वक्षोजग्रहणोत्सुकं भगवन्तं नन्दनन्दनं प्रति वक्तव्यं गोवत्सग्रहणौत्सुक्यशालिनं सविधभुवि सञ्चरन्तं वल्लवमाणवकं कञ्चिन्निर्देश्य कयाचिद्गोपकामिन्या कथ्यते । हे गोपबाल वल्लवकुमार ! पक्षे हे कृष्णेति संबुद्धिः । त्वं वत्से तर्णके जाता लालसा औत्सुक्यं ‘लालसे प्रार्थनौत्सुक्ये' इत्यमरः । आयातः । अन्यत्र त्वं वत्सजातयोः वक्षोजयोः 'वत्सः पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्' इति मेदिनी । लालसः उत्सुकस्सन्नित्यर्थः ‘लोलुपो लोलुभो लोलो लम्पटो लालसश्च सः’ इति त्रिकाण्डशेषः । आयातः तज्जिघृक्षुः तर्णकग्रहेच्छुः वक्षोजग्रहेच्छुश्च । असि । तं जिघृक्षुः तौ जिघृक्षुरिति च विग्रहः 'न लोक' इति षष्ठीनिषेधेन कर्मणि द्वितीयायां 'गम्यादीनामुपसंख्यानम्’ इति समासः । बाढं साध्वेतदित्यङ्गीकारे । एष प्रियः प्रीत्यास्पदभूतो वरसः । पक्षे एष प्रियः मद्भर्ता अविदूरे उपकण्ठ एव चरति तृणं भक्षयतीत्यर्थः । 'चरतिर्भक्षणेऽपि’ इत्यनुशासनात् । पक्षे सञ्चरति । कुतस्संत्वरसे मोत्सुको भूरिति भावः । न नु नन्दनन्दनं प्रति वक्तव्ये प्रस्तुते अप्रस्तुतान्यगोपमाणवकवृत्तान्तवर्णनादप्रस्तुतप्रशंसैवेयमिति चेन्न, कार्यकारणसामान्यविशेषसारूप्यैरनभिव्यज्यमानत्वात् । नापि प्रकृताप्रकृतश्लेषमात्रं, तत्र ह्यप्रस्तुतार्थस्य प्रस्तुतार्थोपमानभावेन विवक्षाऽस्ति । नेह तथा अप्रस्तुतार्थस्य विवक्षा । अत्राप्रस्तुतस्य केवलमन्याति स-