पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
18
अलङ्कारमणिहारे

आत्मानमस्य जगतो निर्लेपमजरामरम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥

 इत्यस्त्रभूषणाध्यायोक्तक्रमेण कौस्तुभस्वरूपमिति । आत्मानं प्रत्यगात्मानं स्वम् । कथमपि अतिचञ्चलहृदयतया यत्नगौरवादित्यर्थः । त्वयि आधाय न्यस्य । श्रुतिसुदत्याः हृदये वक्षसि तरळं हारमध्यमणिवद्देदीप्यमानं श्रुतिप्रतिपाद्यमिति यावत् । आत्मानं परमात्मानं त्वां प्रतिविन्दते । 'तरळो हारमध्यस्थमाणौ ना चपले त्रिषु’ इति रत्नमाला । अत्र हृदयतरळभूतयोरात्मनोरुत्तमसमयोः परिवृत्तिश्श्लेषानुप्राणिता ॥

 यथावा--

 दत्वा लवमात्रमपां पुष्पमपि श्रीपते भवो भवते । लवमात्रमपां पुष्पं समुपादत्तेऽन्यदस्य को लाभः ॥ १४४० ॥

 भवः शम्भुः अपां लवमात्रं कणमात्रं ‘लवलेशकणाणवः' इत्यमरः । पुष्पमपि एकं कुसुममपि भवते दत्वा ‘पत्रं पुष्पं फलं तोयम्’ इत्युक्तरीत्या समर्प्य अन्यत् अपां लवमात्रं पुष्पं च लभते । तत्तीर्थं तन्निर्माल्यकुसुमं च विन्दते इत्यर्थः । अस्य समवस्तुदानेन समवस्तूपाददानस्य को लाभः न कोऽपि लाभ इति भावः। लवमात्रं कलामात्रं अपां पुष्पं ‘चन्द्रमा वा अपां पुष्पम्' इति श्रुतेः । समुपादत्ते इति वस्तुस्थितिः । भगवदर्चनमहिम्नाऽस्य चन्द्रशेखरत्वमिति भावः अत्राप्युत्तमत्वेन समयोः परिवृत्तिः श्लेषमूलाभेदाध्यवसायलब्धप्रसरा । यद्वा न्यूनतया समयोः परिवृत्तिरिति वक्ष्यमाणप्रभेदस्यैवेदमुदाहरणं भविष्यति ॥