पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
282
अलङ्कारमणिहारे

त्तिं ते तव तनवानीति प्रश्नः, हे कान्ते! अभीप्सितां नवरतसंपदं ते तनवानीत्यर्थान्तरगर्भितः । हे घनभ! मेघाभ अविरतं सततं मे अभीप्सितं भाग्यं यदि वितरसि तर्हि कृतार्थेत्युत्तरम् । हे घन! मे अभीप्सितं चिरकालप्रार्थितं भावि भविष्यत् रतं सुरतरूपं भाग्यं यदि वितरसि तर्हि कृतार्था निर्वृत्ताभीप्सितप्रयोजनेत्यभिप्रायगर्भम् ॥

 अत्रेदमवधेयम्--प्राक्तनमतानुरोधेनास्मदुपदर्शितोत्तरालंकारप्रकारभेदेषु सत्स्वपि बहुषु चित्रोत्तरगूढोत्तररूपौ तदलंकारप्रकारप्रभेदौ द्वावेव कुवलयानन्दकारैरुपात्तौ । तन्मतानुरोधेनालंकारान्निबध्नद्भिः कौस्तुभकारैर्वेङ्कटार्यैस्तत्प्रतिद्वन्द्वितया चित्रप्रश्नप्रकारद्वयमभिनवं परिकल्पितम् । तदिदमस्माभिरपि प्रदर्शितम् । यदित्वत्र अन्यार्थगर्भप्रश्नरूपो द्वितीयः प्रकारो निबद्धसाभिप्रायनिरभिप्रायान्यतरोत्तरस्स्यात् तर्हि तत् प्रागुपदर्शिते प्राचां मते उत्तरालंकारोदाहरणमेव भवेत् । एवंच 'भामामणि व्यपनयन, सुतराङ्गविभोऽगं त्वम्’ इत्युपदर्शितयोः पद्ययोरुत्तरानुपनिबन्धात्प्रश्नमात्रस्य साभिप्रायत्वाच्च चित्रप्रश्नोदाहरणत्वमेव । अस्य प्राथमिकप्रभेदे प्रदर्शितेषु 'का कारुण्यनिधिः' इत्यादिपद्येषूत्तरोपनिबन्धमन्तरेण एकस्य प्रश्नस्य प्रश्नान्तराभिन्नप्रश्नताया दुर्विज्ञानतया तदुपनिबन्धावश्यंभावेऽपि प्रश्नमात्रस्यैव निराकूतत्वेऽपि श्लेषवशेन वैचित्र्यप्रकाशनात्प्राचीनोपदर्शितोत्तरालंकारव्यावृत्तश्चित्रप्रश्नालंकार एव । ‘कान्तारमयेत्कामाम्’ इत्यादिपद्यद्वये तु साभिप्राययोः प्रश्नोत्तरयोरुभयोरपिनिबद्धत्वादुत्तरालंकारप्रभेद एव । प्रथमतरं प्राचीनरीत्या प्रदर्शितेषूदाहरणेषु साभिप्रायत्वं व्यङ्ग्यमर्यादया, अनयोस्तु श्लेषमहिम्नेति वैलक्षण्यम् । अथ मतं-- उत्तरालंकारे प्रश्नोत्तरयोरा-