पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
276
अलंकारमणिहारे

 यथावा--

 सिंहगिरिनाथवाहनरंहसि कीदृग्विभाति पवमानः । तद्दोर्दण्डविधूता वेपन्ते केऽभ्युदीर्यतामरयः ॥ १८७२ ॥

 अत्रापि प्रश्नद्वयस्योत्तरं अरय इत्यभिन्नमेव । अरयः वेगहीन इति प्रथमस्योत्तरेऽर्थः । अरयः शत्रव इति द्वितीयस्येति ध्येयम् ॥

 यथावा--

 श्रीवासस्याश्रयणाद्भवेयुरर्थार्थिनोऽत्र कीदृक्षाः । आर्तानां किं भविता ज्ञानी कीदृक्ततो भवेद्विभवः ॥ १८७३ ॥

 अत्र प्रश्नत्रयस्यापि विभव इत्येकमेवोत्तरमिति पूर्वेभ्यो विशेषः । अर्थार्थिनः अपूर्वैश्वर्यकामाः विभवः प्रभवः भवेयुरिति प्रथमस्य प्रश्नस्योत्तरम् । आर्तानां भ्रष्टैश्वर्यकामानां विभवः ऐश्वर्यं भवितेति द्वितीयस्य । ज्ञानी भगवन्तमेव परमप्राप्यं प्रापकं च मत्वा उपासीनः विभवः विगतसंसृतिर्भवतीति तृतीयस्येति बोध्यम् ॥

 यथावा--

 हरियशसा का विशदाः कीदृश्यस्तत्तनुत्विषस्ताभिः । वृषशैलः कीदृक्स्यात्कुतश्च निश्श्रेयसं भवेद्धरितः ॥ १८७४ ॥

 अत्र प्रश्नचतुष्टयस्यापि हरित इत्येकमेवोत्तरमिति पूर्वस्माद्वैलक्षण्यम् । हरियशसा का विशदा इति प्रथमस्य प्रश्नस्य