पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
271
उत्तरसर: (८६)

 तत्रैवोत्तरस्य साकूतत्वे सकृदुपादाने चमत्कृतिर्यथा--

 लभ्येत किमङ्ग सुमं द्युमणितनूजातटद्रुकुञ्जेषु । सुलभतमं तत्र सुमं भवादृशां मृगदृशामपि नताङ्गि ॥ १८६० ॥

 अत्र लभ्येत किमङ्गेत्यादिप्रश्नः कयाचिद्व्रजललनया ऋजुबुद्ध्या भगवन्तं यशोदानन्दनं प्रति कृतो निराकूतः । सुलभतममित्यादि भगवत उत्तरं तु तत्र संभोगस्वाच्छन्द्याकूतगर्भम् । आकूतविरहे असकृदुपादानकृतश्चमत्कारः क्व गमिष्यसीत्यत्र गदित एव । प्रकारान्तरेणाप्यस्य भेदास्संभवन्ति । पद्यान्तर्वर्तित्वेन पद्यबहिर्वर्तित्वेन तावद्द्वैविध्यम् । तत्राद्यस्याभिन्नवाक्योद्गीर्णत्वभिन्नवाक्योद्गीर्णत्वाभ्यां पुनर्द्वैविध्यम् । पद्यान्तर्वर्तिपद्यबहिर्वर्तिनोर्द्वयोरप्युत्तरयोस्सकृच्छब्दश्रुतिपर्यायत्वेन शब्दावृत्तिपर्यायत्वेनानेकेषां प्रश्नानामेकपदनिवेदितोत्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वमित्यालंकारिकशेखरो रसगङ्गाधरकारः । अयमेव प्रभेदश्चित्रोत्तरमिति दीक्षितैः पृथगुक्तः ॥

चित्रोत्तरमलंकारः प्रश्नाभिन्नोत्तरं भवेत् ।
यच्चोत्तरान्तराभिन्नमुत्तरं तदुपीष्यते ॥

 प्रश्नाभिन्नमुत्तरं उत्तरान्तराभिन्नमुत्तरं च चित्रोत्तरमित्युच्यते ॥

 यथा--

 कङ्कमनैषीद्भगवान् संकल्पेनैव शाश्वतैश्वर्यम् । इति पृच्छते तदेवोत्तरमिति कस्मैचिदाह कविरेकः ॥ १८६१ ॥