पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
267
उत्तरसर: (८६)

 किं चिन्तयसे भद्रे इति कांचिद्गोपललनां प्रति भगवतः कृष्णस्य प्रश्नः । किं त्वयीत्यादि तस्या उत्तरम् । अत्राद्यस्य प्रश्नस्य चिन्ताहेतुं चेद्वदसि तदा प्रतिकरिष्यामीति व्यङ्ग्यम् । उत्तरस्य तु उपभोगेन विना केवलप्रश्नोत्तराभ्यां कः प्रतीकारस्स्यादिति । द्वितीयस्य तु प्रश्नस्य ज्ञात एव त्वदभिप्रायः । अथापि त्वद्वदनात्तं शुश्रूषेयेत्यभिसंध्युद्घाटनम् । उत्तरस्य तु ज्ञात एव त्वया मदभिप्रायः किं पुनःपुनः प्रश्नकालयापनेनेति । उन्नीतप्रश्ने सकृदुत्तरस्य चारुत्वं, निबद्धप्रश्ने तु प्रश्नोत्तरयोरसकृदुपन्यासे तत् । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नोत्तरयोरन्यतरस्योभयोरपि साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधेति प्राञ्चः । तत्र प्राथमिके ‘तत इतः' इति पद्ये उन्नीतः प्रश्नः किं गौस्त्वया मदीया दृष्टेत्याकारकश्चतुरसार्वभौमेण भगवता कृष्णेन वक्त्रा वैशिष्ट्यात्संभोगरूपेणाभिप्रायेण गर्भितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । एवं निबद्धप्रश्ने ‘किं चिन्तयसे' इति पद्येऽपि प्रश्नोत्तरयोरुभयोरपि साभिप्रायत्वम् । एवमन्यतरसाभिप्रायप्रभेदा अप्युदाहार्याः ॥

 प्रश्नोत्तरयोरुभयोरपि निरभिप्रायत्वे उन्नीतप्रश्नमुत्तरं यथा--

 इह वाऽमुष्मिन्वा त्वं बहुसुखमधिगम्य वस्तुमिच्छसिचेत् । वृजिनपथं विजहदिमं भुजगगिरीन्दुं भजस्व निश्शङ्कम् ॥ १८५३ ॥

 वृजिनपथं कुटिलमार्गं दुरितसरणिं वा । अत्र कस्यचिद्धितैषिणः पुरुषस्य कंचित्पुमांसं प्रत्युत्तरेण तत्कर्तृकस्वहितानुशासनप्रश्न उन्नीयते । तादृशप्रश्नमन्तरेण हितानुशासनायो-