पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
262
अलङ्कारमणिहारे

तु स्वगुणपरित्यागपूर्वकोऽन्यगुणपरिग्रहः । इह तु स्वगुणमपरित्यज्यैव तुल्यगुणादन्यस्मात् पृथगविभाव्यमानतेति ततो भिदा ॥

 यथा--

 केयूरयुगळखचिता मायूररुचिर्हरिन्मणीश्रेणी । हरिदिव्यविग्रहरुचा लब्धाद्वैता विविच्य नाग्राहि ॥ १८४५ ॥

 यथावा--

 ताटङ्कवज्ररुचिभरकबळितरूपा तवाम्ब रदनाळी । निपुणनिरूपणकुशलैरपि नैव पृथक्तया जनैर्जज्ञे ॥ १८४६ ॥

 अत्राद्ये उदाहरणे प्रस्तुतभगवद्दिव्यविग्रहरुच्यपेक्षया हरितगुणसाम्यादप्रस्तुतगारुत्मतमणीश्रेण्याः पृथगविभाव्यमानतोक्ता । द्वितीये तु अप्रस्तुतात्ताटङ्कवज्ररुचिभरात् धवलगुणसाम्यात्प्रस्तुताया लक्ष्मीरदनावळ्याः पृथगप्रतीयमानता निबद्धेति भेदः । एवंच एतन्मते ‘पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्’ इत्यन्यदीये पद्ये ‘वर्षावनविहृतौ' इत्यास्माकीने पद्ये च मुखपद्मादीनां भेदावभासेऽपि व्यावर्तकास्फुरणादलंकारान्तरेण भाव्यम् । स्वरूपातिरोधानेन मीलितासंभवात् भेदातिरोधानेन सामान्यस्याप्यसंभवात् । यद्वा गुणसाम्याद्विशेषाग्रह इति सामान्यालंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाणे इति कल्पयित्वा तदवान्तरभेदेन भाव्यम् । प्राथमिके 'न दृश्यते भेद एव सादृश्याद्यदि मीलितम्' इति मते--