पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
261
सामान्यसरः (८३)

 यथावा--

 नैल्यं घनेऽस्ति माधव तौल्यं तस्यास्ति विग्रहे भवतः । नैतौ विशेषभाजौ ज्ञातौ तावन्ततस्सदृशवर्णौ ॥ १८४४ ॥

 इयं घनागमे वने विहरन्तं भगवन्तं श्रीनिवासं प्रति कस्यचिदुक्तिः । हे माधव! घने मेघे नैल्यं श्यामलिमा अस्ति अत एव तस्य घनस्य तौल्यं भवतः तव विग्रहे वपुषि अस्ति अत एव सदृशवर्णौ तुल्यवर्णौ तावेतौ घनभगवद्विग्रहौ अन्ततः दूरं पर्यालोचने इति यावत् । विशेषभाजौ वैलक्षण्यभाजौ न न भवतः द्वयोरपि नीलत्वादिति भावः । पक्षे तावेतौ नैल्यं तौल्यमिति शब्दौ तावेताविति पुल्लिङ्गनिर्देशो विशेष्यकटाक्षेण । अन्ततः अन्ते सदृशः वर्णः ल्यमित्याकारकवर्णः ययोस्तौ । नै तौ इति वर्णाभ्यां विशेषभाजौ वैलक्षण्ययुजौ ज्ञातौ इत्यर्थः । नैल्यतौल्यशब्दयोस्ताभ्यामेव विशेषदर्शनादित्यर्थोऽपि चमत्कारी । अत्रापि पूर्ववदेव ॥

 प्राचां मते त्वेवं लक्षणम्--

 गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत् । ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम् ॥

 यत्र वस्तुतः प्रस्तुतात् भिन्नमस्य प्रस्तुतं गुणसाम्यविवक्षया प्रस्तुतात्पृथगप्रतीयमानतया निबध्यते तत्र योगात् समानगुणसंबन्धरूपात् सामान्यं नामालंकारः । वस्तुद्वयस्य पृथक् स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधानं सामान्यमिति निष्कर्षः । अस्य च मीलिताद्वैलक्षण्यं तत्रैव निरूपितम् । तद्गुणे