पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
260
अलङ्कारमणिहारे

 यथावा--

 वर्षावनविहृतौ घनवलये त्वां वृषगिरीश जलधिसुता । तां च न काञ्चनवर्णां विद्युत्सु भवान्विविच्य नागृह्णात् ॥ १८४२ ॥

 मीलितालंकारे सर्वात्मना भेदस्यैव सामान्यधर्मनिबन्धनस्य तत्तद्व्यक्तित्वादिविशेषनिबन्धनस्य चानुपलम्भः, सामान्ये तु व्यक्तीनां परस्परभेदावबोधेऽपि परस्परव्यावर्तकधर्मानुफलम्भमात्रं सादृश्यादुपनिबध्यत इति भिदा । मीलितालंकारोदाहरणे हि निसर्गगौराल्लक्ष्मीकपोलफलकादेर्वस्त्वन्तरत्वेनागन्तुकं हरिद्रानुलेपनगौरत्वादिकं न भासते । सामान्योदाहरणे तु भगवल्लक्ष्म्योर्घनविद्युतोश्च व्यक्त्यन्तरत्वेन भानमस्त्येव । किंतु अयं भगवान् अयं घनः इयं लक्ष्मीः इयं विद्युदिति विशेषस्तु नोपलक्ष्यते । अतएव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता ॥

 यथावा--

 मधुमथन श्लथमलिके तवालकं तिलकमपि जनो भिन्नम् । अतिमात्रभिदायामपि सहसा बहुवर्णसाम्यतो नावैत् ॥ १८४३ ॥

 हे भगवन्! जनः तव अलिके ललाटे श्लथः अलकं तिलकं मृगमदतिलकं च अतिमात्रभिदायां सत्यामपि अतिवेलभेदे सत्यपि पक्षे अवर्णतिवर्णाभ्यां भेदे सत्यपीत्यर्थः । बहु यत् वर्णस्य नीलवर्णस्य साम्यं तस्मात् पक्षे बहूनां लकारादीनां वर्णानां साम्यात् भिन्नं विशेषवत् नावैत् । अत्रालकतिलकयोर्भिन्नयोरेव सतोर्वर्णसाम्यान्न विशेषग्रहणम् । चमत्कारान्तरं तु पूर्वस्माद्विशेषः ॥