पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
247
पूर्वरूपसरः (७९)

 पूर्वावस्थापेक्षया विजातीयतां प्राप्तेऽप्यर्थे पूर्वावस्थानुवृत्तिरपि पूर्वरूपमलंकारः ॥

 यथावा--

 चित्रमिदं त्वत्कृपया बन्धविमोक्षं गतोऽपि पद्माक्ष । प्राप्नोति महाशुद्धप्रकृतिगुणामोचनं यदात्माऽयम् ॥ १८१८ ॥

 अयमात्मा जीवः त्वत्कृपया बन्धस्य प्रकृतिसंबन्धस्य विमोक्षं गतोऽपि महाशुद्धाः अतिमात्राशुचयः ये प्रकृतेर्गुणाः तमःप्रभृतयः तेषां आमोचनं बन्धं प्राप्नोतीति चित्रम् । तत्त्वं तु महाशुद्धाः अतिवेलनिर्मलाः ये प्रकृतिगुणाः स्वभावगुणाः अपहतपाप्मत्वादयः स्वाभाविका गुणा इत्यर्थः । ‘प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः' इति मेदिनी । तै: अमोचनं अविनाभावं आमोचनं संबन्धं वा प्राप्नोति आविर्भूतस्वाभाविकगुणाष्टको भवतीत्यर्थः । अत्र बन्धमोक्षेण पूर्वावस्थातो विलक्षणस्य प्रत्यगात्मनः श्लेषमहिम्ना महाशुद्धप्रकृतिगुणामोचनरूपपूर्वावस्थानुवृत्तेर्लक्षणानुगतिः ॥

 यथावा--

 जगतां सवितस्तावकदिव्यालोकेन तमसि गळितेऽपि । भूयोऽपि सत्तमश्श्रीर्भजतामनुवर्तते विचित्रमिदम् ॥ १८१९ ॥

 हे जगतां सवितः जगज्जनक! पक्षे जगतामित्येतत् भजतामित्यस्य विशेष्यतया योज्यम् । हे सवितः भानो ! तावकेन दिव्येन आलोकेन दर्शनेन तेजसा च । तमसि अज्ञाने तदुपलक्षितप्रकृतौ वा । अन्यत्र तिमिरे विगळितेऽपि भूयोऽपि भजतां सत्तमसः अधि-