पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
234
अलंकारमणिहारे

 लवणाशब्दः स्वाभाव्यात् स्त्रीलिङ्गः लावण्यवाची । 'लवणैव लावण्यम्' इति 'लावण्यश्रिय इव शेषसङ्गनायाः' इत्यादौ मल्लिनाथादिभिस्तत्रतत्र व्याख्यातत्वात् । 'लवणो रसरक्षोऽब्धिभेदेषु लवणा त्विषि, इति विश्वः । तया शालत इति लवणाशाली । क्षुभितः असुरेन्द्राणां हिरण्यकशिपुनरकप्रभृतीनां राज्यमेव उदधीशः । समुद्रराजः येन तादृशो भुज एव दण्डः मन्थानदण्डो यस्य सः नलिनाक्ष्या श्रिया राजितं हृत् वक्षः यस्य सः सप्तसंख्याकानां भुवननां भूरादिलोकानां निधिः जलजाक्षः जयतु । अत्र 'लवणेक्षुसुरासर्पिर्दधिक्षीरजलार्णवाः' इति पुराणादिप्रसिद्धसहपाठानां सप्तानामुदन्वतां क्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विशेषः । सप्तभुवननिधिरिति पदेन सूच्यसमुद्रसूचनान्मुद्रा च ॥

 यथावा--

 भूरिदयं जलधिभुवः प्रियं सुवर्णाभमहरधिपबिम्बस्थम् । सुजनोग्रतपोगम्यं व्याहृतयो नोऽभिदधतु सत्यं देवम् ॥ १७९७ ॥

 नः अस्माकं व्याहृतयः व्याहाराः भूरिदयं निरवधिककृपं, तत्र हेतुः जलधिभुवः प्रियमिति । अत्र 'नित्यश्रीर्ब्रध्नबिम्बे' इत्याचार्यश्रीसूक्तिस्स्मर्तव्या । अतएव सुवर्णाभं अहरधिपबिम्बस्थमिति तदुपस्कारकम् । अत्र ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इत्यन्तरादित्यविद्योक्तं दिव्यात्मविग्रहरूपमनुसंहितम् । सुजनानां सतां उग्रेण तीव्रेण तपसा गम्यं प्राप्यं, सत्यं निरुपाधिकसत्तायोगिनं 'सत्यं ज्ञानम्' इति श्रुतेः । मुक्तामुक्तनियन्तारं वा ‘अथ यत्तत्सदमृतं अथ यत्ति तन्मर्त्यं अथ यद्यं तेनोभे यच्छति' इति दहरविद्यायां श्रवणात् । देवं नारायणं अभिदधतु वदन्तु