पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
230
अलङ्कारमणिहारे

 हे अब्जाक्ष! नॄणां यद्द्रव्यं स्वार्थमेव सत् तव पदाब्जं नालिङ्गति त्वच्चरणाम्भोजार्पितं न भवतीत्यर्थः । तद्द्रव्यं संख्यातिगं अपरिमितमपि विदुषां ब्रह्मविदां प्रीतिकारकं न स्यात् । व्यर्थमेव तदिति भावः । अत्र स्वार्थद्रव्यलिङ्गसंख्याकारकाणां प्रातिपदिकार्थानां शाब्दिकगोष्ठीप्रसिद्ध्यनुसारतः क्रमिकत्वम् ॥

 यथावा--

 अविषयमविशयमागमवचसामपि पूर्वपक्षमिह तमसाम् । लोकोत्तरफलदं त्वां जगतामधिकरणमाश्रये भगवन् ॥ १७९० ॥

 हे भगवन्! आगमवचसामपि अविषयं अगोचरं तमसां अज्ञानानामेव तिमिराणां पूर्वपक्षं शुक्लपक्षं तन्निर्मूलयितारमिति भावः । लोकोत्तरं यत्फलं निश्श्रेयसरूपं तद्ददातीति तथोक्तं जगतां अधिकरणं आधारं त्वां अविशयं निस्संदेहं यथा तथाऽऽश्रये । अत्र--

विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् ।
प्रयोजनं च पञ्चैते प्राञ्चोऽधिकरणं विदुः ॥

 इति पूर्वोत्तरमीमांसाप्रसिद्धाधिकरणाङ्गपञ्चकस्य क्रमेण न्यासः । अधिकरणमित्यनेन सूचनीयार्थसूचनं च ॥

 यथावा--

 कामं जितशक्रो धनविभवैस्सुकलो भयं क्षमो हर्तुम् । भानुमदंशुश्रीमत्सरोजलोचन भवेद्भवद्दृष्टः ॥ १७९१ ॥