पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
226
अलङ्कारमणिहारे

 यथावा--

 कामं दारादिमजुषमपारिजातं श्रितं ससन्तानसुखम् । सामोदं कल्पयसे हरिचन्दन दैवतरुचिरश्रीदस्त्वम् ॥ १७८४ ॥

 हे हरिचन्दन! हरिरेव चन्दनः तस्य संबुद्धिः । त्वं दैवतानामपि रुचिरा रमणीया तैरपि श्लाघ्येति यावत् । या श्रीः संपत् शोभा वा तां ददातीति तथोक्तस्सन् । हरिचन्दनेत्यनेन देवतरुविशेषोऽपि गृह्यते । तदा दैवतानां रुचिरां श्रियं ददातीति तथोक्त इत्यप्युपस्कार्यम् । श्रितं स्वाश्रितं जनं कामं पर्याप्तं यथातथा दारादिमान् जुषतीति तं तथोक्तं आदिमशब्देन बन्ध्वादिर्गृह्यते । अपास्तं अरिजातं वैरिवृन्दं येन तं अपारिजातं संतानसुखेन सह वर्तत इति ससंतानसुखं अतएव सामोदं सानन्दं ससौरभं च । हरेश्चन्दनतया रूपितत्वादिति भावः । कल्पयसे रचयसि । स्वोपासितारं सर्वप्रकारविभवजुषं तनोषीति भावः । अत्र मन्दारपारिजातादीनां पञ्चानां देवतरूणां क्रमेण न्यसनम् । दैवतरु इति पदैकदेशेन श्लोकघटितदेवतरुरूपसूच्यार्थस्यापि सूचनान्मुद्रालङ्कारावतंसितेयमिति पूर्ववदेवानुसंधेयम् ॥

 यथावा--

 चरणारविन्दशरणगमशोकयन्नात्मचरमवचसापार्थम् । कुतसहकारश्रीमल्लीलो नीलोत्पलोज्ज्वलोऽवतु स पुमान् ॥ १७८५ ॥

 चरणारविन्दशरणगं पार्थं आत्मचरमवचसा 'सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' इति वचनेन अशोकयन् कृतः सह-