पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
225
रत्नावळीसरः (७७)

 यथावा--

 भूयांसमन्वयं त्वयि दधतं भवभाविरोधपरिहृत्यै । शुभसाधनफललिप्सुश्चतुरध्यायी श्रये हरिं कमले ॥ १७८२ ॥

 हे कमले ! त्वयि भूयांसं अन्वयं संबन्धं दधतं हरिं शुभानां साधनं यत्फलं निश्श्रेयसरूपं प्रयोजनं लिप्सुस्सन् अतएव भवेन संसारेण जन्मना वा भावी यो रोधः निर्बन्धस्तय परिहृत्यै शान्त्यै चतुरं निपुणं यथातथा ध्यायतीति चतुरध्यायी सन् श्रये । अत्र समन्वयाविरोधसाधनफलानां ब्रह्ममीमांसाचतुरध्यायीप्रतिपाद्यानां क्रमेण सूचनम् । चतुरध्यायीति सूच्यार्थसूचनान्मुद्रा च । तच्छिरस्का रत्नावलीयं पूर्ववदेव । किंच भूयांसमन्वयं त्वयि दधतं हरिमित्यनेन प्राप्यस्य ब्रह्मणस्स्वरूपं, श्रये इत्यनेन प्राप्तुः प्रत्यगात्मनस्स्वरूपं, चतुरध्यायीति प्राप्त्युपायः, शुभसाधनफलेति फलस्वरूपं, भवभाविरोध इत्यनेन स्वरूपोपायफलप्राप्तिविरोधस्वरूपं च किंचित्क्रमवैपरीत्येन वर्णितमिति विशेषश्चात्र विभावनीयः ॥

 सत्यं धर्मं विन्दति स भीमसेनो रणे विजयशाली । व्रजति सुशोभनकुलतां लक्ष्म्या सह देव सेवते यस्त्वाम् ॥ १७८३ ॥

 अत्र श्लेषोपश्लिष्टमुद्रालङ्काररीत्या युधिष्ठिरादीनां पञ्चानां पाण्डवानां प्रसिद्धक्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विच्छित्तिविशेषः ॥

 ALANKARA--III.
29