पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
224
अलङ्कारमणिहारे

पाण्डुराः' इत्यमरः । आशु उद्द्रावितं प्रद्रावितं ‘प्रद्राविद्द्राव सन्द्रावाः' इत्यमरः । दुरितं येन सः ।

वें पापमिति संप्रोक्तं कटस्तस्य तु दाहकः ।
पापानां दाहकत्वाद्धि वेंकटाद्रिरितीर्यते ॥

 इति तस्य पापहारित्वप्रसिद्धेः । ते भवतः धराधरः शेषाद्रिरित्यर्थः । चातुर्वर्ण्यं चतुरक्षरत्वं धराधरशब्दस्य तथाविधत्वादिति भावः । प्रथयति । अत्र ब्रह्मक्षत्रवैश्यशूद्राणां क्रमेण न्यसनम् । चातुर्वर्ण्यपदेन उपपादितब्रह्मक्षत्रादिसूचनान्मुद्राच पूर्ववदेव ॥

 यथावा--

 त्वद्दिव्यचरितवर्णी न्यासेन त्वां गृहीतवान्मतिमान् । त्वद्भावनस्थितोऽयति परमं धामाश्रमान्वितो भगवन् ॥ १७८१ ॥

 हे भगवन्! तद्दिव्यचरितं वर्णयतीति तथोक्तः । न्यासेन भरन्यसनेन त्वां गृहीतवान् वशीकृतवान् गृहीतवानित्यनेन उपयाम गृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत' इति न्यासकरणमन्त्रगतं गृहीतपदं प्रत्यभिज्ञाप्यते । तव भावने स्थितः मतिमान् आश्रमेण उपायान्तरानुष्ठानप्रयासराहित्येनैव परमं धाम अयति प्राप्नोति 'इटकिटकटि’ इत्यत्र प्रश्लिष्टस्य इधातो: लट् । अत्र ब्रह्मचारिगृहस्थवनस्थयतीनामाश्रमिणां स्मृत्यादिषु सहपठितानां क्रमिको न्यासः । अयमेवाश्रमेणेति पदेन सूच्योर्थस्सूचित इति पूर्ववदेव सर्वम् । वर्णिगृहिशब्दाभ्यां ब्रह्मचारिगृहस्थौ गृह्येते ॥