पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
221
रत्नावळीसरः (७७)

 यथावा--

 अरिदमनदक्षिणाहव नीयन्ते स्म द्विषोऽपि तव धाम परम् । अहमेव गार्हपत्ये भव इह कियदवधि नाथ भवताऽऽयास्ये ॥ १७७३ ॥

 अरिदमने दक्षिणः चतुरः आहवः युद्धं यस्य तस्य संबुद्धिः हे नाथ! द्विषोऽपि चैद्यादयोऽपि भवता तव परं धाम नीयन्ते स्म । अहमेव सर्वात्मना त्वां प्रपन्न एव । इह भवे संसारे गार्हपत्ये गृहस्थधर्मोपलक्षिते तत्तदाश्रमकर्मणि गृहपतेः कर्म गार्हपत्यमिति विग्रहः । 'पत्यन्तपुरोहितादिभ्यो यक्' इति कर्मरूपार्थे यक् । कियदवधि भवता आयास्ये आयासितो भवामि वा न जाने इति भावः । अत्र दक्षिणाहवनीयगार्हपत्यानां क्रमिकत्वम् ॥

 यथावा--

 कृतमच्युत तीर्थगणैः कृतं च नस्त्रेतयाऽपि सेवितया । स्याद्वा परोऽत्र भवतो भवतोयधितारणे कलितदीक्षः ॥ १७७४ ॥

 कृतं अलम् । अत्र कृतादीनां युगानां चतुर्णां क्रमेण मुद्रालंकाररीत्या प्रकृतानन्वयिनां न्यसनमिति विशेषः ॥

 यथावा--

 देवोभिरामलक्ष्मणवक्षा रक्षार्थमहिगिरौ जगताम् । अवतीर्य कृपाभरतः स्फुरति हरिर्विनतनित्यशत्रुघ्नः ॥ १७७५ ॥