पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
215
रत्नावळीसरः (७७)

भुवनानां अपां पतिः वरुणः । पक्षे लोकानामधिनाथः । जगत्प्राणः समीरणः जगदुज्जीवयिता च ।

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुभौ श्रितौ ॥

 इति श्रुतेः । पुण्यजनेड्यः कुबेरः सुकृतिजनस्तुतश्च । शिवः शर्वः मङ्गळमूर्तिश्च 'शाश्वतं शिवमच्युतम्’ इति श्रुतेः । अत्र प्रसिद्धसहपाठानामष्टानामिन्द्रादिलोकपालानामुपरञ्जकतया प्रकृतान्वयिनां क्रमेण न्यसनम् । उपरञ्जकता चारोप्यमाणता । तदुक्तं--'उपरञ्जकतामेति विषयी रूपकं तदा' इति । अत्र हि श्रीनिवासस्य इन्द्रादितया उपरञ्जनम् ॥

 यथावा--

 भास्वान् राजा पार्थिव एष बुधो वाक्यपतिश्च काव्यप्रथितः । मैत्र्याख्यातश्चोत्तम उच्छ्रितजयकेतुराश्रितस्त्वां भगवन् ॥ १७६१ ॥

 पृथिव्यां विदितः पार्थिवः ‘तत्र विदितः' इत्यधिकारे ‘सर्वभूमिपृथिवीभ्यामणञौ’ इत्यञ् । पक्षे पृथिव्यां जातः पार्थिवः । भौम इत्यर्थः । काव्येन प्रथितः स्वविषयकप्रबन्धप्रख्यातकीर्तिरित्यर्थः । स्वप्रणीतेन काव्येन प्रख्यात इति वा पक्षे काव्य इति प्रथितः । मैत्र्या सर्वभूतसुहृत्तया ख्यातः । अन्यत्र मित्रस्य भानोः अपत्यं मैत्रिः मैत्रिरिति आख्यातः रविसुतश्शनिरित्यर्थः । उत्तमः श्रेष्ठः । पक्षे उन्नतं च तत् तमः राहुरित्यर्थः । 'तमस्तु राहुः' इत्यमरः । उच्छ्रितः जयकेतुः जयध्वजो यस्य सः । पक्षे उच्छ्रितजयश्चासौ केतुश्च । शिष्टं स्पष्टम् । अत्र भास्वदादिपदैः वर्णनीयस्य