पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
214
अलंकारमणिहारे

 इति । अस्याश्श्रुतेरर्थश्च उक्तविशेषणैः प्रत्यभिज्ञाप्यते । वात्सल्यं नाम दोषतिरस्कारिणी प्रीतिः । पक्षे सकलजनहृदयंगमहिरण्यादिकोशमध्यवर्तीत्यर्थः । एवं सकलचेतनहृदयस्थोऽपि त्वं दुर्दर्श इत्याह-- तदपीत्यादि । तदपि तथाऽपि तव पदं स्वरूपं त्वत्प्रसादबलविधुरैः जनैः दुर्गं अधिगन्तुमशक्यं 'तं दुर्दर्शं गूढमनुप्रविष्टं, तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः’ इत्यादिश्रुतिभ्यः । पक्षे तत् प्रसिद्धं तव पदं स्थानमपि त्वत्प्रसादेन बलेन सैन्येन च विधुरैः दुर्गं गन्तुमशक्यमित्यर्थः । अत्र ‘स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च' इति प्रसिद्धसहपाठानां स्वाम्यादीनामुपरञ्जकतया प्रकृतान्वयिनां सप्तानां क्रमिको न्यासः ॥

 यथावा--

 हरिरेष शचिर्धर्मश्श्रितरक्षश्श्रीः पतिश्च भुवनानाम् । परिपाति जगत्प्राणः पुण्यजनेड्यश्शिवश्च मादृक्षान् ॥ १७६० ॥

 एष हरिः इन्द्रः भगवांश्च। शुचिः वह्निः अपहतपाप्मा च । धर्मः यमः । पक्षे ‘कृष्णं धर्मं सनातनम्’ इत्युक्तरीत्या धर्मस्वरूपः । श्रिता रक्षसां श्रीः येन सः नैऋत इत्यर्थः । पक्षे श्रितान् रक्षतीति श्रितरक्षी । कर्मण्यणि ‘टिड्ढ’ इति ङीप् । तादृशी श्रीः लक्ष्मीः यस्य स तथोक्तः । अनदीसंज्ञकत्वान्न कप् । यद्वा भगवत्पक्षे धर्मश्रितरक्षश्श्रीरित्येकमेव पदम् । धर्मं न्यासरूपं श्रितान् रक्षतीति धर्मश्रितरक्षी तादृशी श्रीः यस्य सः । अस्मिन् पक्षे धर्मश्रितेत्यत्र शकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वम् ।