च यथाकथंचित्प्रकृतोपमानोपरञ्जकतादिप्रकारेण । तदनन्वयित्वं च क्रमेण तत्तन्नाम्नां यथाकथंचित् श्लेषभङ्ग्या मुद्रालंकारविधया वा निवेशनेन भवति । सर्वमिदमुदाहरणेषु स्पष्टीभविष्यति इयमपि दीक्षितोपज्ञमेव ॥
तत्र प्रकृतान्वयवती सक्रमा यथा--
विधिरिव सकलागमवान् हरिरिव पीताम्बरो विभाति तराम् । गिरिश इव शिरसि वहते सरसिजनयनाङ्घ्रिसरितमहिशैलः ॥ १७५६ ॥
सकलाः अगमा तरवः आगमाः वेदाश्च तद्वान् । पीतं अम्बरं येन स तथोक्तः ‘निसर्गोदग्रेण प्रसभमुरसा पीतगगनः' इतिवत् स्वाभोगेनाक्रान्तगगन इत्यर्थः । सरसिजनयनः हरिः तदङ्घ्रिजां सरितं आकाशगङ्गां गङ्गांच । स्पष्टमन्यत् । अत्र सृष्टिस्थितिलयकर्तृतया पुराणादौ प्रसिद्धसहपाठानां ब्रह्मविष्णुमहेश्वराणां त्रयाणामुपमानविधया प्रकृतान्वयिनां क्रमेण न्यसनम् ॥
यथावा--
क्षितिरिव तितिक्षुरासीस्सलिलमिवाप्यायनोऽनल इव त्वम् । तेजस्वाननिल इव व्यापी वियदिव विनिर्मलश्शौरे ॥ १७५७ ॥
अत्र उपमानरीत्या प्रकृतान्वयिनां ‘क्षित्यप्तेजोमरुद्व्योम’ इति पुराणादौ सहपठितानां पञ्चानां महाभूतानां क्रमेण न्यासः ॥
सैव उपरञ्जकतया प्रकृतान्वयिनी यथा--
अङ्करिता सुकृतवशात्पल्लविता देव तव गुण-