पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
10
अलङ्कारमणिहारे

षोः । भवतस्स्म शोषशेषौ भगवंस्तत्प्रकृतिगुणभिदावशतः ॥ १४२४ ॥

 हे देव भगवन् ! त्वत्प्रातिकूल्यसख्यजुषोः दशवदनविभीषणयोः शोषशेषौ भवतः स्म अभूताम् । रावणस्य शोषः विभीषणस्य शेष इति भावः । शुषशिषोर्भावे घञ् । तत्र हेतुमाह-- तदिति । तयोः दशवदनविभीषणयोः प्रकृतिगुणानां स्वभावसिद्धगुणानां ‘दम्भो दर्पोऽभिमानश्च' इति, ‘अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यस्थिति:’ इति च गीतानां आसुरसंपद्गुणानां दैवसंपद्गुणानां च भिदावशात् भेदवशात् भवतः स्मेति योजना । भवतेः स्मयोगेन भूते लट् । आसुरसंपदभिजाततया भगवत्प्रातिकूल्येन दशाननस्य नाशः । दैवसंपदभिजाततया तत्सख्येन विभीषणस्यायुरादिश्रेयस्वत्तया पारिशेष्यं चाभूतामित्यर्थः । पक्षे प्रकृती प्रत्ययविधावुद्देश्यभूते धातुरूपे । तयोः गुणौ तद्भिदावशतः घञ्निमित्तकतया ‘पुगन्तलघूपधस्य’ इति विहितगुणयोश्च भेदवशादित्यर्थः । शुष् शिष् इति प्रकृती भिन्ने तयोर्गुणौ ओकारैकारलक्षणौ च भिन्नौ तादृशभेदवशात् शौष इति शेष इति शब्दौ निष्पन्नाविति भावः । अन्यत्तुल्यं पूर्वेण ॥

 अत्रेदं विवेचनीयं-- इदं यथासंख्यमलंकारसरणिमाढौकितुमीष्टे वा न वेति । न ह्यस्मिन् लोकसिद्धे कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्मात्रयाऽप्युपलम्भोऽस्ति । येनालंकारव्यपदेशो मनागपि सांप्रतं स्यात् । अतः अपक्रमत्वरूपदोषाभाव एव यथासंख्यम् । एवंचोद्भटमतानुयायिनामुक्तयः कूटकार्षापणवदमनोहारिण्य एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याता इति नव्याः ॥

इत्यलंकारमणिहारे यथासंख्यसरो द्विपञ्चाशः.